पूर्वम्: २।४।३८
अनन्तरम्: २।४।४०
 
सूत्रम्
बहुलं छन्दसि॥ २।४।३९
काशिका-वृत्तिः
बहुलं छन्दसि २।४।३९

छन्दसि विषये बहुलम् अदो घस्ल्̥ आदेशो भवति। घस्तां नूनम्। सग्धिश्च मे। न च भवति। आत्तामद्य मद्यतो मेद उद्भृतम्। अन्यतरस्य अंग्रहणम् एव कस्मान् न क्रियते तदेव उत्तरार्थम् अपि भविष्यति? कार्यान्तरार्थं बहुलग्रहणम्। घस्ताम् इत्यत्र उपधालोपो न भवति।
न्यासः
बहुलं छन्दसि। , २।४।३९

"घस्ताम्" इति। लङ, तसस्ताम्, आदादिकत्वाच्छपो लुक्। "बहुलं छन्दस्यामाङ्योगेऽपि" ६।४।७५ इत्यहागमाभावः। अथ वा लुङ्युदाहरणमेतत्। "मन्त्रे घसह्वर" २।४।८० इत्यादिना च्लेर्लुक्। "सग्धिः" इति। स्त्रियां क्तिन्" ३।३।९४। "घसिभसोर्हलि च" ६।४।१०० इत्युपधलोपः। "झलो झलि" ८।२।२६ इति सकारलोपः। अथ तु सिचोऽनेन लोपो विधीयते तदा च्छान्दसी वर्णलोपो द्रष्टव्यः-- यथा इष्कत्र्तारमध्वर इति। पूर्ववत् तकारस्य धकारः। घकारस्य जश्त्वम्()। समाना ग्धिरिति "पूर्वापरप्रथम" २।१।५७ इत्यादिना समासः, "समानस्य च्छन्दस्यमूद्र्धप्रभृकत्युदर्केषु" ६।३।८३ इति सभावः। "अत्ताम्" इति। "झलो झलि" ८।२।२६ इति सिचो लोपः। तसस्ताम्। "खरि च" ८।४।५४ इति दकारस्य तकारः। अथ वा लङ्युदाहरणमेतत्। अथ बहुलग्रहणं किमर्थम्, अन्यतरस्यांग्रहणमेव कस्मान्न क्रियते इत्युच्यते कः पुनरेवं सति गुणे भवतीति पर्यनुयोगमाशङ्क्याह-- "तदेवोत्तरार्थमपि भविष्यति" इति। एतेनेहान्यतरस्यांग्रहणे सत्युत्तरसूत्रेऽन्यतरस्यांग्रहणं न कत्र्तव्यं भवतीतीमं गुणं दर्शयति। तर्हीहैवान्यतरस्यांग्रहणमुत्तरसूत्रेऽनुवर्तिष्यते। यदि पुनरुत्तरसूत्रे बहुलग्रहणमनुवर्त्तेत तदा किं स्यात्? अन्यदपि किञ्चित कार्यं भवतीत्याशङ्क्येत। क्वचिदन्यदेवेत्येषोऽप्यर्थो हि बहुलग्रहणस्याभीष्ट एव। "घस्तामित्यत्रोपधालोपो न भवति" इति। "घसिभसोर्हलि च" ६।४।१०० इति प्राप्तः। स बहुलग्रहणान्न भवति॥