पूर्वम्: ३।३।९३
अनन्तरम्: ३।३।९५
 
सूत्रम्
स्त्रियां क्तिन्॥ ३।३।९४
काशिका-वृत्तिः
स्त्रियां क्तिन् ३।३।९४

भावे अकर्तरि च कारके ति वर्तते। स्त्रीलिङ्गे भावादौ धातोः क्तिन् प्रत्ययो भवति। घञजपामपवादः। कृतिः। चितिः। मतिः। क्तिन्नावादिभ्यश्च वक्तव्यः। आबादयः प्रयोगतो ऽनुसर्तव्याः। आप्तिः। राद्धिः। दीप्तिः। स्रस्तिः। ध्वस्तिः। लब्धिः। श्रुयजिस्तुभ्यः करणे। श्रूयते अनया इति श्रुतिः। इष्टिः। स्तुतिः। ग्लाम्लाज्याहाभ्यो निः। ग्लानिः। म्लानिः। ज्यानिः। हानिः। ऋ̄कारल्वादिभ्यः क्तिन् निष्ठावद् भवति इति वक्तव्यम्। कीर्णिः। गीर्णिः। जीर्णिः। शीर्णिः। लूनिः। यूनिः। सम्पदादिभ्यः क्विप्। सम्पद्। विपद्। प्रतिपद्। क्तिन्नपि इष्यते। सम्पत्तिः। विपत्तिः।
लघु-सिद्धान्त-कौमुदी
स्त्रियां क्तिन् ८६६, ३।३।९४

स्त्रीलिङ्गे भावे क्तिन् स्यात्। घञोऽपवादः। कृतिः। स्तुतिः। (ॠल्वादिभ्यः क्तिन्निष्ठावद्वाच्यः)। तेन नत्वम्। कीर्णिः। लूनिः। धूनिः। पूनिः। (संपदादिभ्यः क्विप्)। संपत्। विपत्। आपत्। (क्तिन्नपीष्यते)। संपत्तिः। विपत्तिः। आपत्तिः॥
न्यासः
स्त्रियां क्तिन्। , ३।३।९४

"भावादौ" इति। आदिशब्देनाकर्त्तुः कारकस्योपादानम्। "घञजपामपवादः" इति। य इकारान्तास्तेभ्योऽचोऽपवादः, य ऋकारान्ता उवर्णान्ताश्च, तेभ्योऽपः, शेषेभ्यो घञः। वक्तव्य इति। व्याख्येय इत्यर्थः। व्याख्यानं तु "कृत्यल्युटो बहुलम्" ३।३।११३ इत्येतदाश्रित्य कत्र्तव्यम्। "आप्तिः" इत्यादि। "आप्लृ व्याप्तौ" (धा।पा।१२६०), "राध साध संसिद्धौ" (धा।पा।१२६२), "दीपी दीप्तौ" (धा।पा।११५०), "रुआन्सु ध्वन्सु अवरुआंसने" (धा।पा। ७५४,७५५) "डुलभष् प्राप्तौ" (धा।पा।९७५)। लभेति षित्त्वात् "षिद्भिदादिभ्योऽङ" ३।३।१०४ इत्यङि प्राप्ते शेषेभ्यस्तु गुरुत्वात् "गुरोश्च हलः"३।३।१०३ इत्यकारे क्तिन विधीयते। "इष्टिः" इति। वच्यादिसूत्रेण ६।१।१५ सम्प्रसारणम्।"कीर्णिः,गीर्णिः, शीर्णिः" इति। "ऋत इद्धातोः" ७।१।१०० इतीत्त्वम्, रषादिसूत्रेण ८।४।१ णत्वम्। यथा "रदाभ्याम्" ८।२।४२ इत्यादिना कीर्ण इति निष्टायास्तकारस्य नत्वं भवति, तथेहापि क्तिनः। यथा "ल्वादिभ्यः"८।२।४४ इति लून इत्यत्र निष्ठातकारस्य नत्वं तथा "लूनिः, यूनिः"इत्यात्रापि क्तिनः॥
तत्त्व-बोधिनी
स्त्रियां क्तिन् १५५६, ३।३।९४

स्त्रियां क्तिन्। घञोऽपवाद इति। यत्तु प्रक्रियाग्रन्थं व्याचक्षाणा आहुः--"भाष्ये त्वधिकः कारोऽधिकार" इति घञप्युदाह्मत" इति, तद्रभसात्। न हि तत्र स्त्रीत्वविशिष्टो भावोऽर्थः, किंतु पुंस्त्वविशिष्ट इति ध्येयम्। अजपौ त्विति। तयोरवकाशः--चयः। लवः। क्तिनोऽकाशः--कृतिः। ह्मतिः। चिनोतिस्तौतिभ्यां तु स्त्रियामुभयप्रसङ्गे परत्वात् क्तिन्नित्यर्थः। [प्रामादिकम्। "स्फायः स्फी निष्ठायाटमिति निष्ठायामेव स्फीभावविधानादिति भावः]। श्रुयजीति। परत्वात् "करणाधिकरणयोश्चे"ति ल्युटि प्राप्ते वचनम्। श्रुतिः -श्रोत्रम्। यजेरिति। यजेः क्तिनि "वचिस्वपी"ति संप्रसारणे "व्रश्चभ्रस्जे"ति षत्वे इष्टिरिति रूपम्। इज्यतेऽनयेति विग्रहःओ। एवमिष्यतेऽनया इष्टिः। स्तूयतेऽनया स्तुतिः। तेन नत्वमिति। कीर्णिरित्यादौ "रदाभ्या"मित्यनेन नत्वम्। लूनिरित्यादौ तु "ल्वादिभ्यः" इत्यनेनेति विवेकः। ह्लाद इति। "ह्लादो निष्ठाया"मित्यत्रेत्यर्थः। चूर्तिरिति। "ति चे"ति चरफलोरुत्वे "र्वोरुपधाया दीर्घः" इति दीर्घः। चायतेः। चायृ पूजानिशामनयोः]। क्तिन्नपीति। अस्त्रियामिति प्रतिषेधेन स्त्रियां वासरूपविधेरबाधादिदमुक्तम्।