पूर्वम्: २।४।३
अनन्तरम्: २।४।५
 
सूत्रम्
अध्वर्युक्रतुरनपुंसकम्।॥ २।४।४
काशिका-वृत्तिः
अध्वर्युक्रतुरनपुंसकम् २।४।४

अध्वर्युवेदे यस्य क्रतोर् विधानं सो ऽध्वर्युक्रतुः। अध्वर्युक्रतुवाचिनां शब्दानाम् अनपुंसकलिङ्गानां द्वन्द्वः एकवद् भवति। अध्वर्युक्रतुरनपुंसकं द्वन्द्वः इति गौणो निर्देशः। अर्काश्वमेधम्। सायाह्नातिरात्रम्। अध्वर्युक्रतुः इति किम्? इषुवज्रौ। उद्भिद्बलभिदौ। अनपुंसकम् इति किम्? राजसूयवाजपेये। इह कस्मान् न भवति, दर्शपौर्णमासौ? क्रतुशब्दः सोमयागेषु रूढः।
न्यासः
अध्वर्युक्रतुरनपुंसकम्। , २।४।४

"अध्वर्युवेदे" इति। ऐतेनाध्वर्युशब्दनात्र यजुर्वेदो लक्ष्यत इति दर्शयति। अथाष्वर्योरृत्विग्विशेषस्य यः क्रतुरिति क्रतुविशेषणमेवाध्वर्युग्रहणं कस्मान्न विज्ञायते? असम्भवात्; को हि तस्य क्रतुर्भवति ! अपि तु घनव्ययशीलस्य। यद्यपि तस्य क्रतौ कर्त्तृत्वमस्ति तदपि ऋत्विगन्तरेण साधारणमित्यध्वर्युणैकेन तस्य विशेषणमयुक्तम्। ननु चाथर्ववेदविहितो यः क्रतुस्तन्निवृत्त्यर्थमध्वर्युणैकेन कथं विशेषणं न स्यात्; न हि त्तराध्वर्यवः सन्ति? नैतदस्ति; यदि ह्रेतावत् प्रयोजनमभिहितं स्यात् तदाऽनथर्वण इति प्रतिषेधमेव कुर्यात्। लघीयसी हि साक्षात् प्रतिषेधे प्रतीतिर्भवति। त्रयीग्रहणं वा कुर्यात्। यदि चाध्वर्युणा क्रतुर्विशेष्येत तदेषुवज्रावित्यत्रापि स्यात्? इषुवज्रावपि ह्रध्वर्योः क्रतू भवतः; तयोरपि तत्कर्तृकत्वात्। तस्मादध्वर्यूणां यजुर्वेदविदां यो वेदः सोऽध्वर्युशब्देनोपलक्ष्यते। स पुनर्यजुर्वेदः। तत्राध्वर्युवेदे यस्य क्रतोर्विधानं सोऽध्वर्युक्रतुरिति। इतिकत्र्तव्यतोपदेशः प्रयोगश्चानुष्ठानात्मको विधानशब्देनोक्तः। यदि तह्र्रध्वर्युक्रतुवाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवद्भवतीति सूत्रार्थस्तदा सूत्रेऽध्वर्युक्रतुशब्दस्यानपुंसकमित्यस्य च द्वन्द्व इ()तयनेन प्रकृतेन सामानाधिकरण्येन निर्देशो नोपपद्यते। अतोऽध्वर्युक्रतुवाचिनामनपुंसकलिङ्गानामिति वक्तव्यं स्यादित्यत आह-- "अध्वर्युक्रतुरनपुंसकम्" इति। "गौणोऽयं निर्देशः" इति। गौण इत्यमुख्य औपचारिक इत्यर्थः। अध्वर्युक्रत्ववयवो द्वन्द्व उपचारेणाध्वर्युक्रतुरित्युक्तः। स एवानपुंसकलिङ्गावयवोऽनपुंलकमिति। गौणन्र्दिएशस्तु लाघवार्थो वेदितव्यः। यदि पुनरनपुंसकमित्यनेन मुख्यया वृत्त्या द्वन्द्व एवोच्येत तदा "स नपुसंकम्" २।४।१७ इत्यस्यापवादोऽयं विज्ञायेत। "अर्का()आमेधम्" इत्यादि। अर्कश्चा()आमेधश्चेत्यर्का()आमेधम्। सायाह्नश्चातिरात्रश्चेति "सायाह्नातिरात्रम्"। "इषुवज्रौ" इत्यादि। इषुवज्रप्रभृतयोऽध्वर्युक्रतवो न सम्भवति, न हि तेषामध्वर्युवेदे विधानम्। किं तर्हि? सामवेदे। "राजसूयवाजपेये" इति। एतौ राजसूयवाजपेयशब्दौ पुंल्लिङ्गावपि स्तः। तत्र यदा नपुंसकलिङ्गौ प्रयुज्येते तत्रेदं प्रत्युदाहरणम्। "सोमयागेषु" इति। यत्र यत्र सोमपानं विहितं ते सोमयागाः। तेष्वेव क्रतुशब्दो रूढः। न च दर्शपौर्णमासौ सोमयागौ। "अनपुंसकम्" २।४।४ इत्युपादानात् स्वरूपग्रहणमिह न भवति। न हि क्रतुसामान्यो नपुंसकलिङ्गो भवति॥
बाल-मनोरमा
अध्वर्युक्रतुरनपुंसकम् ८९८, २।४।४

अध्वर्युक्रतुः। अध्वर्युशब्दोऽत्राध्वर्युकर्मविधायकजुर्वेदपरः। तदाह--यजुर्वेद इति। अर्का()आमेधमिति। अर्को--महाक्रतुः। अ()आमेधो नाम प्रसिद्धः। उभौ यजुर्वेदविहितक्रतू। अर्कस्य च अ()आमेधस्य च समाहार इति विग्रहः। इषुवज्राविति। क्रतुविशेषावेतौ न यजुर्वेदविहिताविति भावः। तर्हि कस्मिन्वेदे विहितावित्यत आह--सामेति। राजसूयवाजपेये इति। एतयोर्यजुर्वेदविहितत्वेऽपि नपुंसकत्वान्नैकवत्त्वमिति भावः। राजसूयवाजपेययोः पुंलिङ्गतया प्रसिद्धेराह--अर्धर्चादी इति। अध्ययनतः। "अविप्रकृष्टाख्याना"मिति च्छेदः। "अध्ययनत" इति तृतीयार्थे तसिः।