पूर्वम्: २।४।४
अनन्तरम्: २।४।६
 
सूत्रम्
अध्ययनतोऽविप्रकृष्टाख्यानाम्॥ २।४।५
काशिका-वृत्तिः
अध्ययनतो ऽविप्रकृष्टाऽख्यानाम् २।४।५

अध्ययनेन निमित्तेन येषाम् अविप्रकृष्टा प्रत्यासन्ना आख्या, तेषां द्वन्द्वः एकवद् भवति। पदकक्रमकम्। क्रमकवार्तिकम्। सम्पाठः पदानां क्रमस्य च प्रत्यासन्नः। अध्ययनतः इति किम्? पितापुत्रौ। अविप्रकृष्टाऽख्यानाम् इति किम्? याज्ञैकवैयाकरणौ।
न्यासः
अध्ययनतोऽविप्रकृष्टाख्यानाम्। , २।४।५

अधीतिरध्ययनमिति भावसाधनोऽध्ययनशब्दः, कर्मसाधनो वा -- अधीयत इत्यध्ययनमिति। "अध्ययनतः" इति। "आद्यादिभ्यस्तस्युपसंख्यानम्" (वा। ६३४) इति हेतुतृतीयान्तात् तसिः। अत आह-- "अध्ययनेन निमित्तेन" इति। "अविप्रकृष्टा" इति। अविप्रकृष्टाऽ‌ऽख्या येषां तेऽविप्रकृष्टाख्याः। निमित्तस्य साधारणत्वादिविप्रकृष्टता। तत्पुनर्निमित्तं सूत्रोपात्तमेवाध्ययनमाख्यानामधेयम्। "पदकक्रमकम्" इति। पदमधीते, क्रममधीते इति "क्रमादिभ्यो वुन्" ४।२।६०। "क्रमकवार्तिकम्" इति। वृत्तिमधीत इति वार्तिकः। क्रतूक्थादिसूत्रान्ताट्ठक् ४।२।५९। कथं पुनः पदस्याध्येतुः क्रमस्य चाध्ययनेन निमित्तेनाविप्रकृष्टता भवतीत्याह-- "सम्पाठः" इत्यादि। यस्मात् पदानां क्रमस्य च यः पाठः स नातिभिन्नः। ग्रन्थोऽपि तादृश एव, अतः प्रत्यासन्नः। यतश्च पदान्यधीत्य क्रमोऽध्येतव्यः, ततोऽपि सम्पाठस्तयो। प्रत्यासन्नः, ततश्च तेन सम्पाठेनाध्ययनेन निमित्तेन पदक इति क्रमक इति च याऽध्येतुराख्या साऽपि प्रत्यासन्ना भवतीत्यभिप्रायः। "पितापुत्रौ" इति। "आनङ ऋतो द्वन्द्वे" ६।३।२४ इत्यानङादेशः। तत्र हि "पुत्रेऽन्यतरस्याम्" ६।३।२१ इत्यतः पुत्र इत्यनुवत्र्तते। अत्रापि पितेति पुत्र इति चाख्ये प्रत्यासन्ने साधारणत्वान्निमित्तस्य। तथा हि-- जन्यजनकभावो द्वयोरपि तयोर्निमित्तम्। "याज्ञिकवैयाकरणम्" इति। यज्ञमधीते याज्ञिकः। क्रतूक्थादिना ४।२।५९ इक्। व्याकरममधीते वैयाकरणः। "तदधीते तद्वेद" ४।२।५८ इत्यण्। अस्त्यत्राध्ययननिमित्तत्वमनयोराख्ययोः, न तु प्रत्यासतिः। न हि यज्ञाध्ययनेन व्याकरणाध्ययनेन वा तयोः क्रियाप्रत्यासत्तिर्नापि ग्रन्थप्रत्यासत्तिः॥
बाल-मनोरमा
अध्ययनतोऽविप्रकृष्टाख्यानाम् ८९९, २।४।५

तदाह--अध्ययनेन प्रत्यासन्नेति। संनिकृष्टेत्यर्थः। पदककक्रमकमिति। पदान्यधीयते पदकाः। क्रमान् अधीयते क्रमकाः। "क्रमादिभ्यो बुन्"। पदकानां क्रमकाणां च समाहर इति विग्रहः। पदाध्ययनानन्तरं क्रमाध्ययनमित्यद्ययनगता प्रत्यासत्तिरध्येतर्यारोप्यत इति भावः। पदक्रममिति नोदाह्मतम्, "जातिरप्राणिना"मित्येव सिद्धेः। तदध्येतृत्वे तु न जातिरिति भावः।

तत्त्व-बोधिनी
अध्ययनतोऽविप्रकृष्टाख्यानाम् ७७५, २।४।५

पदकेति। पदान्यधीते पदकः। "क्रमादिभ्यो वुन्"। एवं क्रमकोऽपि। पदान्यधीत्यक्रमोऽद्येतव्य इति स्पष्टा प्रत्यासत्तिः। अध्यनतः किम्()। पितापुत्रौ। अविप्रकृष्टेति किम्()। याज्ञिकनैयायिकौ।