प्रथमावृत्तिः
सूत्रम्॥
अदिप्रभृतिभ्यः शपः॥ २।४।७२
पदच्छेदः॥
अदिःप्रभृतिभ्यः ५।३ ७३ शपः ६।१ ७६ लुक् १।१ ५८
समासः॥
अदिप्रभृति येषां ते अदिप्रभृतयः, तेभ्यः, बहुव्रीहिः॥
अर्थः॥
अदादिगणपठितेभ्यो धातुभ्य उत्तरस्य शपो लुग् भवति॥
उदाहरणम्॥
अत्ति। हन्ति। द्वेष्टि॥
काशिका-वृत्तिः
अदिप्रभृतिभ्यः शपः २।४।७२
अदिप्रभृतिभ्य उत्तरस्य शपो लुग् भवति। अत्ति। हन्ति। द्वेष्टि।
लघु-सिद्धान्त-कौमुदी
अदिप्रभृतिभ्यः शपः ५५४, २।४।७२
लुक् स्यात्। अत्ति। अत्तः। अदन्ति। अत्सि। अत्थः। अत्थ। अद्मि। अद्वः। अद्मः।
न्यासः
अदिप्रभृतिभ्यः शपः। , २।४।७२
बाल-मनोरमा
अदिप्रभृतिभ्यः शपः २५४, २।४।७२
अदिप्रभृतिभ्यः। "ण्यक्षत्रियार्षञितः" इत्यतो लुगित्यनुवर्तते इत्यभिप्रेत्य शेषपूरणेन सूत्रं व्याचष्टे-- लुक् स्यादिति। अदिप्रभृतिभ्यः परस्य शपो लुगिति फलितम्। अत्तीति। शपो लुकि दस्य चर्त्वेन तकारः। एवमत्त इत्यपि। अदन्तीति। तदर्थमेव "झोऽन्तः" इत्यत्र अकारादिरादेश आश्रितः। अत्सि अत्थः अत्थ। अद्मि अद्वः अद्मः।