पूर्वम्: २।४।७२
अनन्तरम्: २।४।७४
 
सूत्रम्
बहुलं छन्दसि॥ २।४।७३
काशिका-वृत्तिः
बहुलं छन्दसि २।४।७३

छन्दसि विषये शपो भौलं लुग् भवति। अदिप्रभृतिभ्य उक्तस् ततो न भवत्यपि वृत्रं हन्ति। अहिः शयते। अन्येभ्यश्च भवति त्राध्वं नो देवाः।
न्यासः
बहुलं छन्दसि। , २।४।७३

"त्राध्वम्" इति। "त्रैङ पालनै" (धा।पा।९६५) भौवादिकः, लोट, ध्ममादेशः, टेरेत्त्वम्, "सवाभ्यावामौ" ३।४।९१ इत्यमादेशः॥