पूर्वम्: २।४।७३
अनन्तरम्: २।४।७५
 
सूत्रम्
यङोऽचि च॥ २।४।७४
काशिका-वृत्तिः
यङो ऽचि च २।४।७४

यङो लुग् भवति अचि प्रत्यये परतः। चकारेन बहुलग्रहनम् अनुकृष्यते, न तु छन्दसि इति। तेन छन्दसि भाषायां च यङो लुग् भवति। लोलुवः। पोपुवः। सनीस्रंसः। दनीध्वंसः। बहुलग्रहणादञ्च्यपि भवति। शाकुनिको लालपीति। दुन्दुभिर्ववदीति।
लघु-सिद्धान्त-कौमुदी
यङोऽचि च ७२१, २।४।७४

यङोऽचि प्रत्यये लुक् स्यात्, चकारात्तं विनापि क्वचित्। अनैमित्तिकोऽय मन्तरङ्गत्वादादौ भवति। ततः प्रत्ययलक्षणेन यङन्तत्वाद्द्वित्वम्। अभ्यासकार्यम्। धातुत्वाल्लडादयः। शेषात्कर्तरीति परस्मैपदम्। चर्करीतं चेत्यदादौ पाठाच्छपो लुक्॥
न्यासः
यङोऽचि च। , २।४।७४

"अचि प्रत्यये परतः" इति। प्रत्ययग्रहणमचीति न प्रत्याहारग्रहणमिति प्रदर्शनार्थम्। यदि हि प्रत्याहारग्रहणभिमतं स्यात् तदाऽणीति णकारेणैव कुर्यात्। न हि यङन्तादणोऽन्येऽचः परे सम्भवन्तीत्यभिप्रायः। इदमेवाज्ग्रहणं ज्ञापकम्-- सर्वे धातवः पचाद्यन्तःपातिन इति। "लोलुवः"इति। "धातोरेकाचो हलादेः क्रियासमभिहारे" ३।१।२२ इति यङ्, द्वर्वचनं "सन्यङोः" ६।१।९ इत्यनेन, "गुणो यङलुकोः" ७।४।८२ इति गुणः। लोलू य इति स्थिते पचाद्यच्, यङो लुक्, "न धातुलोप" १।१।४ इत्यादिना गुणप्रतिषेधः। "अचि श्नुधातु" ६।४।७७ इत्यादिनोवङ। "सनीरुआंसः। दनीध्वंसः" इति। "रुआन्सु ध्वन्सु अवरुआंसने" (धा।पा।७५४,७५५), पूर्ववद्यङ्दिकार्यम्। " न लुमताङ्गस्य" १।१।६२ इति प्रतिषेधात् प्रत्ययलक्षणेन "अनिदिताम्" ६।४।२४ इत्यादिनाऽनुनासिकलोपो न भवति। "नीग्वञ्चु" ७।४।८४ इत्यादिनाऽभ्यासस्य नीगागमः। "लालपीति।वावदीति" इति। लपेर्वदेश्च "दीर्घोऽकितः" ७।४।८३ इत्यभ्यासस्य दीर्घः। "यङो वा" ७।३।९४ इतीट्॥
तत्त्व-बोधिनी
यङोऽचि च ४०९, २।४।७४

यङोऽचि च। यङा साहचर्यादचीति प्रत्ययो गृह्रते न तु प्रत्याहारः। "ण्यक्षत्रियार्षे" त्यतोऽत्र लुगनुवर्तते। तदाह-- अच्प्रत्यये लुक् स्यादिति। चकारेण "बहुलं छन्दसी"त्यतो बहुलमित्यनुकृष्यत इत्याह-- बहुलं लुक स्यादिति। केचित्तु "छन्दसी"त्यनुकर्षन्ति,तेषामपि मते क्वचिद्भाषायां यङ्लुग्भवत्येव। "भूसुवो"रिति गुणनिषेधे सिद्धे बोभूत्विति छन्दसि निपातनाज्ज्ञापकात्। एतच्च मूले एव स्फुटीभविष्यति। अनैमित्तिकोऽयमिति। अच्प्रत्यये विधीयमानो यङ्लुक्तु तन्निमित्त एव।तेन लोलुवः पोपुव इत्यादौ "न धातुलोपे"ति निषेधः सिद्ध्यति। यङन्तत्वादिति। "सन्यङो"रिति षष्ठी, न तु सप्तमी, अन्यथा यङो लुका लुप्तत्वेन प्रत्ययलक्षणाऽप्रवृत्तेद्र्वत्वं न स्यादिति भावः। न चाऽङ्गाधिकारविहितकार्यस्यैव "न लुमते"ति निषेधाद्द्वित्वमत्र स्यादेवेति सप्तमीपक्षोऽपि निर्दुष्ट इति वाच्यं, "न लुमते"त्यत्राऽङ्गाधिकारो न गृह्रते किं तु आङ्गमनाङ्गं वा प्रत्यये परतः पूर्वस्य विधीयमानं सर्वमिति सिद्धान्तात्। अन्यथा "राजपुरुष" इत्यादौ नलोपो न स्यात्, त्वदुक्तरीत्या प्रत्ययलक्षणप्रवृत्तौ भत्वेन पदत्वबाधात्। यद्यपि "एकाच" इति विधीयमानं द्व#इत्वं "श्तिपा शपे" त्यादिना निषिध्यते तथापि तत्स्यादेव। "गुणो यङ्लुकोः", "रुग्रिकौ च लुकी"त्याद्यभ्यासकार्यविधिभिर्द्वित्वाऽनिषेधस्य ज्ञापनात्। प्रत्ययाप्रत्ययेति। प्रत्यये ङित्त्वं दृश्यते "ऋतेरीय"ङित्यादिषु, अप्रत्ययेऽपि दृश्यते-- चित्रङादिषु। एवं च यङो लुकि प्रत्ययलक्षणेन यङाश्रितङित्त्वप्रयुक्तकार्यमात्मनेपदमत्र न शङ्क्यमिति बावः। "ङित इत्यनुबन्धनिर्देशा"दिति परिहारस्त्वत्र नोक्कतः, शीङादीनामिव भू इत्यादिधातूनामनुबन्धेनाऽनिर्दिष्टत्वात्। यङो ङकारस्य प्रत्ययाऽनुबन्धत्वेन समुदायाऽननुबन्धत्वाद्यङन्तोऽपि धातुरनुबन्धेनाऽनिर्दिष्ट इति बोध्यम्। सुदृषदिति। शोभना दृषदोऽस्मिन्नतिति बहुव्रीहौ दृषच्छब्दो जसन्तः। दीर्घो नेति। "अ"सिति प्रत्ययोऽप्रत्ययश्चास्तीति प्रत्ययस्याऽसाधारणरूपानाश्रयणात्प्रत्ययक्षणेनाऽसन्तत्वाऽभावादिति भावः। तेभ्योऽपीति। ये त्वनुदात्तेतः, प्रत्ययलक्षणं विनैव ङितश्च तेभ्योऽपीत्यर्थः। अदादौ पाठादिति। तथा च "आदिप्रभृतिभ्यः शपः" इत्यनेन यङ्लुगन्तात्परस्य शपो लुगित्यर्थः।