पूर्वम्: २।४।७७
अनन्तरम्: २।४।७९
 
सूत्रम्
विभाषा घ्राधेट्शाच्छासः॥ २।४।७८
काशिका-वृत्तिः
विभाषा घ्राधेट्शाच्छासः २।४।७८

घ्रा घेट् शा छा सा इत्येतेभ्य उत्तरस्य सिचः प्रस्मैपदेषु विभाषा लुग् भवति। धेटः पूर्वेण प्राप्ते विभाषार्थं वचनम्, परिशिष्टानाम् अप्राप्ते। अघ्रात्, अघ्रासीत्। अधात्, अधासीत्। अशात्, अशासीत्। अच्छात्, अच्छासीत्। असात्, असासीत्। परस्मैपदेषु इत्येव, अघ्रासातां सुमनसौ देवदत्तेन।
लघु-सिद्धान्त-कौमुदी
विभाषा घ्राधेट्शाच्छासः ६३६, २।४।७८

एभ्यस्सिचो लुग्वा स्यात्परस्मैपदे परे। अशात्। अशाताम्। अशुः। इट्सकौ। अशासीत्। अशासिष्टाम्॥ छो छेदने॥ ६॥ छ्यति॥ षोऽन्तकर्मणि॥ ७॥ स्यति। ससौ॥ दोऽवखण्डने॥ ८॥ द्यति। ददौ। देयात्। अदात्॥ व्यध ताडने॥ ९॥
न्यासः
विभाषा घ्राधेट्?शाच्छासः। , २।४।७८

"घ्रा गन्धोपादाने" (धा।पा।९२६), "धेट् पाने" (धा।पा।९०२), "शो तनूकरणे" (धा।पा।११४५), "छो छेदने" (धा।पा।११४६), "षोऽन्तकर्मणि" (धा।पा।११४७)। "धेटः पूर्वेण नित्ये प्राप्ते" इति। घुसंज्ञकत्वात्। अलुक्पक्षे पूर्ववत् सगादिकार्यम्। धेटः सानुबन्धकस्य निर्देशो धाञ्परीहारार्थः। यदि कृतात्त्वो निर्दिश्येत तदा धाञोऽपि ग्रहणं स्यात्। "अध्रासाताम्" इति। कर्मण्यात्मनेपदम्॥
बाल-मनोरमा
विभाषा घ्रादेट्शाच्छासः २१३, २।४।७८

चङभावपक्षे विशेषमाह-- विभाषा घ्रा। "ण्यक्षत्रियार्षे"त्यतो लुगित्यनुवर्तते, "गातिस्थे"त्यतः सिचः परस्मैपदेष्विति, तदाह-- एभ्य इति। "घ्रा गन्धोपादाने" "धेट् पाने" "शो तनूकरणे" "छो छेदने" "षो अन्तकर्मणि--एषां समाहारद्वन्द्वत्पञ्चम्येकवचनम्। शोप्रभृतीनां कृतात्त्वानां निर्देशः। धेटः "गातिस्थाघुपे"ति नित्यं प्राप्ते, अन्येषामप्राप्ते वचनम्। अधुरिति। "उस्यपदान्ता"दिति पररूपम्। अधाः अधातम् अधात। अधाम् अधाव अधाम।

तत्त्व-बोधिनी
विभाषा घ्राधेट्शाच्छासः १८५, २।४।७८

विभाषा घ्रा। इह "ण्यक्षत्रियार्षे"त्यतो लुगनुवर्तते, "गातिस्थे"त्यतः सिचः परस्मैपदेष्विति च। तदाह--सिचो लुग्वेत्यादि। अधुरिति। "आतः" इति झेर्जुस्। परस्मैपदे किम्?। व्यत्यघ्रास्त।