पूर्वम्: २।४।७८
अनन्तरम्: २।४।८०
 
सूत्रम्
तनादिभ्यस्तथासोः॥ २।४।७९
काशिका-वृत्तिः
तनादिभ्यस् तथासोः २।४।७९

तनादिभ्य उत्तरस्य सिचः तथासोः परतो विभाषा लुग् भवति। अतत, अतथाः। अतनिष्ट, अतनिष्ठाः। असात, असाथाः। असनिष्ट, असनिष्ठाः। जनसनखनां संज्ञलोः ६।४।४२ इत्यात्वम्। थासा साहचर्यादात्मनेपदस्य तशब्दस्य ग्रहनम्। प्रस्मैपदे न भवति, अतनिष्त यूयम्।
लघु-सिद्धान्त-कौमुदी
तनादिभ्यस्तथासोः ६७७, २।४।७९

तनादेः सिचो वा लुक् स्यात्तथासोः। अतत, अतनिष्ट। अतथाः, अतनिष्टाः। अतनिष्यत्, अतनिष्यत॥ षणु दाने॥ २॥ सनोति, सनुते॥
न्यासः
तनादिभ्यस्तथासोः। , २।४।७९

"अतत" इति। "स्वरितञितः" १।३।७२ इत्यात्मनेपदम्। "अनुदात्तोपदेश" (६।४।३७ इत्यादिनाऽनुनासिकलोपः। "अतनिष्ट ययम्" इति। मध्यमपुरुषबहुवचनान्तमेतत्॥
बाल-मनोरमा
तनादिभ्यस्तथासोः ३७७, २।४।७९

तनादिभ्यस्तथासोः। "गातिस्ते"त्यतः सिच इति, "ण्यक्षत्रियार्षे" त्यतो लुगिति, "विभाषा घ्राधे"डित्यतो विभाषेति चानुवर्तते। तदाह--- तनादेरित्यादिना। एकवचनशब्दो गृह्रत इति। नतु लुङादेशपरस्मैपदमध्यमपुरुषबहुवचनतादेशोऽपीत्यर्थः। यूयमिति। लुङि मध्यमपुरुषबुहवचने सिचि वृद्धिविकल्पे सति अतनिष्ट अतानिष्टेत्यत्र सिचो नायं लुग्विकल्प इत्यर्थः। तदेवं प्रत्युदाहरममुक्त्तवा सूत्रस्योदाहरणं वक्ष्यन्प्रक्रियां दर्शयति-- अनुदात्तोदेशेत्यनुसाकिलोपस्तङीति। तङि प्रथमैकवचने, तशब्दे मध्यमपुरुषैकवचने, तशब्दे मध्यमपुरुषैकवचने थासि च सिचो लुकि "अनुदात्तोपदेसे"ति नकारस्य लोप इत्यर्थः। तदाह-- अतत अतनिष्टेति। अतथाः अतनिष्ठा इति च। अतनिषातामित्यादि सुगमम्। षणु दाने। षोपदेशोऽयम्()। तनुवद्रूपाणि। असातेति। सिचो लुक्पक्षे रूपम्। असनिष्टेति। इट्। झलादिपरकत्वाऽभावादात्त्वं नेति भावः। क्षणुधातुरदुपधः। "वज्रेऽध्वर्युः क्षण्वीते"ति तैत्तिरीये। क्षिणु चेति। इदुपधः। अयमपि हिंसायमित्यर्थः। "वज्रेऽध्वर्युः क्षिण्वीते"ति शाखान्तरं शाबरभाष्ये उदाह्मतम्। ननु क्षिणोतीत्यत्र उप्रत्ययमाश्रित्य इकारस्य लघूपधगुणः कस्मान्नेत्यत आह-- उप्रत्ययनिमित्त इति। ऋणु गतौ। अत्रापि क्षिणुवन्मतभेदाल्लघूपधगुणतदभावौ। तदाह -- ऋणोति अर्मोतीति।एवमग्रेऽपि। अर्ण्वन्तीति। "इको यणची"ति यणिति भावः। डु कृञ् करणे। करोतीति। उप्रत्यमाश्रित्य ऋकारस्य गुणः। रपरत्वम्। उकारस्य तु तिपमाश्रित्यगुणः। कुरुत इति। तसो ङित्त्वादुकारस्य न गुणः। रकुरु अन्तीति स्थिते आह-- यणिति। "इको यणचीत्यनेने"ति शेषः। उकारस्य यणि कुर्व् अन्ति इति स्थिते "हलि चे"ति दीर्घमाशङ्क्याह-- नभेति। वसि मसि च "लोपस्चास्यान्यतरस्या"मित्युकारलोपविकल्पे प्राप्ते -- नित्यं करोतेः। "उतश्च प्रत्यया"दित्यनुवर्तते, "लोपश्चास्यान्यतरस्या"मित्यतो लोपः, म्वोरिति च। तदाह- - करोतेरिति। चकर्थेति। "कृ()सृ()भृ()वृ()"इति नेडिति भावः। अजन्तत्वेऽपि ऋदन्तत्वाद्भारद्वाजमतेऽपि नेट्। करिष्यतीति। करोतु- कुरुतात्। कुरु। करवाणि। कुरुताम्। कुर्वाताम्। करवै करवावहै करवामहै। अकरोत् अकुरुताम्। अकुरुत अकुर्वाताम्। विधिलिङि कुरु यात् इति स्थिते-- ये च। "लोपश्चास्यान्यतरस्या"मित्यतो लोप इति, अस्येति चानुवर्तते। अस्येत्यनेन पूर्वसूत्रे उत इत्युपात्त उत्परामृस्यते। "नित्यं करोते"रित्यतः करोतेरित्यनुवर्तते। अङ्गाक्षिप्तः प्रत्ययो यकारेण विशेष्यते, तदादिविधिः। तदाह - कृञ उलोप इति। आशिषि क्रियादिति। "रिङ् शयग्लिङ्क्षु" इति रिङिति भावः। कृषीष्टेति। "उश्चे"ति कित्त्वान्न गुण इति भावः। अकार्षीदिति। सिचि वृद्धौ रपरत्वमिति भावः। ननु लुङ्स्तङि अकृ स् त इति स्थिते "तनादिभ्यस्तथासो"रिति सिचो लुकि अकृतेतीष्टं सिद्ध्यति। सिचो लुगभावे तु सकारः श्रूयेतेत्यत आह - तनादिभ्य इत्यादि।

तत्त्व-बोधिनी
तनादिभ्यस्तथासोः ३३१, २।४।७९

अतनिष्ट अतानिष्टेति। "तस्थस्थमिपा"मिति तादेशः। "अतो हलादे"रिति वा वृद्धिः। अततेति। "तनादिभ्यस्तथासो"रिति सिज्लुक्यनुनासिकलोपः। अतनिष्टेति। लुगभावपक्षे इट्। षणु दाने। नान्तोऽयम्। णकारस्तु लाक्षणिकः।तेन यङ्लुकि "संसन्ति संसन्त" इत्यादावनुस्वारपरसवर्णौ। क्षणु हिंसायाम्। क्षिणु च। इमावपि लाक्षिकणकारौ। तेन चङ्क्षन्ति,चेक्षेति इत्यत्रानुस्वारपरसवर्णौ।