पूर्वम्: ३।१।९९
अनन्तरम्: ३।१।१०१
 
सूत्रम्
गदमदचरयमश्चानुपसर्गे॥ ३।१।१००
काशिका-वृत्तिः
गदमदचरयमश् च अनुपसर्गे ३।१।१००

गद व्यक्तायां वाचि, मदी हर्षे, चर गतिभक्षणयोः, यम उपरमे, एतेभ्यश्च अनुपसर्गेभ्यो यत् प्रत्ययो भवति। गद्यम्। मद्यम्। चर्यम्। यम्यम्। अनुपसर्गे इति किम्? प्रगाद्यम्। प्रमाद्यम्। यमेः पूर्वेण एव सिद्धे अनुपसर्गनियमार्थं वचनम्। चरेराङि चागुरौ। आचर्यो देशः। अगुरौ इति किम्? आचार्य उपनेता।
न्यासः
गदमदचरयमश्चानुपसर्गे। , ३।१।१००

"अनुपसर्गे" इति। सुज्व्यत्ययेन पञ्चम्यर्थे सप्तमी। अत एवाह-- "अनुपसर्गेभ्यः" इति। अविद्यमानोपलसर्गेभ्य इत्यर्थः। अथैवं कस्मान्न विज्ञायते-- उपसर्गादन्योऽनुपसर्ग इति? अशक्यमेवं विज्ञातुम्; एवं हि विज्ञायमाने केवलेभ्यो न स्यात्। नञिवयुक्त (है।प।९४) न्यायेनोपसर्गसदृशस्य सुबन्तस्य ग्रहणे सति "वदः सुपि क्यप् च" ३।१।१०६ इत्यत्र पुनः सुब्ग्रहणमनर्थकं स्यात्, अस्यैवानुपसर्गस्य तत्रानुवृत्तेः। तस्मात् पूर्वोक्त एवार्थो युक्तः। "नियमार्थम्" इति। अनुपसर्गादेव यथा स्यात्, सोपसर्गानमा भूदिति। "चरेः" इत्यादि। सोपसर्गार्थमिदम्- चरेर्धातोराङि चोपपदे यद्भवतीति, अगुरावभिधेये। स तु ज्ञापकादेव सिध्यतीति नोपसंख्येयः, यदयम् "आश्चर्यमनित्ये" ६।१।१४२ "सम्माननोत्सञ्जनाचार्यकरण" १।३।३६ इत्यादि करोति, ततो ज्ञायते-- चरेराङि चागुरौ यद्भवतीति। "आचार्यो देशः" इति गन्तव्य इत्यर्थः। गुरुः= उपनेता॥
बाल-मनोरमा
गदमदचरयमश्चानुपसर्गे ६६९, ३।१।१००

गदमद। गद, मद, चर, यम् एषां चतुर्णां द्वन्द्वः। अनुपसर्ग इति सप्तमी पञ्चम्यर्थे। एभ्योऽनुपसर्गेभ्यो यदित्यर्थः। ण्यतोऽपवादः। उपसर्गाण्ण्यदेव। प्रगाद्यमित्यादि। चरेराङिचाऽगुराविति। वार्तिकमिदम्। आङि उपसर्गे सत्यपिचरेर्यत्स्यादगुरौ इत्यर्थः। आचार्यो गुरुरिति। शुश्रूषणीय इत्यर्थः। ननु "पोरदुपधा" दित्येव सिद्धे यमेरिह ग्रहणं व्यर्थमित्यत आह-- यमेर्नियमार्थमिति। अनुपसर्गादेव यमेण्र्यदिति नियमार्थमित्यत्यर्थः। तत्फलमाह-- सोपसर्गान्मा भूदिति। ननु "अनियम्यस्य नाऽयुक्तिः" इत्यत्र, "त्वया नियम्या ननु दिव्यचक्षा" इत्यादौ च निपूर्वनाद्यमेः कथं यत्, अनुपसर्गादिति निषेधादित्यत आह-- निपूर्वात्स्यादेवेति। "य" दिति शेषः। कुत इत्यत आह-- तेन न तत्रेति। प्रकारान्तरेण समाधत्ते-- नियमे साधुरिति वेति। "यमः समुपनिविषु चे"ति निपूर्वाद्यमेर्भावे अप्प्रत्यये नियमशब्दः। नियमे साधुरित्यर्थः "तत्र साधुः" इति प्राग्घितीये यत्प्रत्यये नियम्यशब्दो व्युत्पाद्य इत्यर्थः।

तत्त्व-बोधिनी
गदमदचरयमश्चानुपसर्गे ५५६, ३।१।१००

गदमद। व्यत्ययेन पञ्चम्यर्थे सप्तमी। एभ्योऽनुपरुआगेभ्यो यत्स्यात्। ण्यतोऽपवादः। अनुपसर्गे किम्?। "न नैषधे कार्यमिदं निगाद्य" मिति श्रीहर्षः।

* चरेराङि चाऽगुरौ। यमेरिति। "पोरदुपधा"दित्यनेनैव सिद्धेरिति भावः। नियमे साधुरिति। "यमः समुपनिविषु च" इति वैकल्पिकेऽप्प्रत्यये कृते "तत्र साधुः" इति तद्धितो यदित्यर्थः। यद्यप्यस्मिन्पक्षे "कृत्यानां कर्तरि वा" इत्यस्याऽप्रवृत्तेः कर्तरि तृतीया दुर्लभा तथापि त्वयेति च तेनेति चकरणत्वविवक्षया तृतीयेति स्थितस्य गतिर्बोध्या। केवलाद्यतं कृत्वा निशब्देन समास इत्यपरे। यद्वा "यमोऽपरिवेषणे मि"दिति मतमाश्रित्य "पर्यवसितं नियमय"न्नित्यादाविव मित्त्वं स्वीकृत्य ण्यन्ताद्यद्बोध्यः। अथ वा संज्ञापूर्वकविधेरनित्यत्वाण्ण्यत्येव वृद्धिर्न प्रवृत्तेति दिक्। एवं च वार्तिकप्रयोगोऽप्यन्यथासिद्ध इति तद्बलेननिपूर्वाद्यदिति न कल्पनीयमिति भावः।