पूर्वम्: ३।१।१०१
अनन्तरम्: ३।१।१०३
 
सूत्रम्
वह्यं करणम्॥ ३।१।१०२
काशिका-वृत्तिः
वह्यं करणम् ३।१।१०२

वहेर् धातोः करणे यत् प्रत्ययो निपात्यते। वहत्यनेन इति वह्यं शकटम्। करणे इति किम्? वाह्यम् अन्यत्।
न्यासः
वह्रं करणम्। , ३।१।१०२

बाल-मनोरमा
वह्रं करणम् ६७१, ३।१।१०२

वह्रं करणम्। वहेः करणे यन्निपात्यते। ण्यतोऽपवादः।

तत्त्व-बोधिनी
अह्रं करणम् ५५८, ३।१।१०२

वाह्रमिति। वहनकर्मेत्यर्थः।