पूर्वम्: ३।१।१०२
अनन्तरम्: ३।१।१०४
 
सूत्रम्
अर्यः स्वामिवैश्ययोः॥ ३।१।१०३
काशिका-वृत्तिः
अर्यः स्वमिवैश्ययोः ३।१।१०३

ऋ गतौ, अस्माण् ण्यति प्राप्ते स्वामिवैश्ययोः अभिधेययोः यत् प्रत्ययो निपत्यते। अर्यः स्वामी। अर्यो वैश्यः। यतो ऽनावः ६।१।२०७ इत्याद्युदात्तत्वे प्राप्ते स्वामिन्यन्तोदात्तत्वं च वक्तव्यम्। स्वामिवैश्ययोः इति किम्? आर्यो ब्राह्मणः।
न्यासः
अर्यः स्वामिवैश्ययोः। , ३।१।१०३

"वक्तव्यम्" इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम्-- तन्त्रेणेह द्वावर्यशब्दावुच्चारितौ,तत्रैक आद्युदात्तः,अपरोऽन्तोदात्तः। य आद्युदात्तः स वैश्ये निपात्यते, इतरस्तु स्वामिनीति॥
बाल-मनोरमा
अर्य स्वामिवैश्ययोः ६७२, ३।१।१०३

अर्यस्वामिवैश्ययोः। अस्माद्यदिति। निपात्यत इति शेषः। ण्यतोऽपवाद इति। "ऋहलो"रिति प्राप्तस्य ण्यतोऽपवाद इत्यर्थः। यति ऋकारस्य गुणे रपरत्वम्। तदाह-- अर्यः स्वामीति। आर्यो ब्राआहृण इति। ण्यति वृद्धौ रपरत्वमिति भावः।