सुप्यनुपसर्गे इत्यनुवर्तते। भवतेर् धातोः सुबन्ते उपपदे ऽनुपसर्गे भावे क्यप् प्रत्ययो भवति। यत् तु न अनुवर्तते। ब्रह्मभूयं गतः ब्रहंत्वं गतः। देवभूयं, देवत्वं गतः। भावग्रहणम् उत्तरार्थम्। सुपि इत्येव, भव्यम्। अनुपसर्गे इत्येव, प्रभव्यम्।
"यत् तु नानुवत्र्तते" इति। पूर्वसूत्रे चानुकृष्टत्वात्। "ब्राहृभूयं गतः" इति। ब्राहृत्वं प्राप्त इत्यर्थः। ननु च "तयोरेव कृत्यक्तखलर्थाः"
३।४।७० इति भावकर्मणोः कृत्वा विधीयन्ते, अनुपसर्ग इति चानुवत्र्तते, अनुपसर्गश्च भवतिरकर्मक इतिसामथ्र्याद्भाव एव भविष्यति, न कर्मणि,
किं भावग्रहणेन? इत्याह-- "भावग्रहणेन? इ()तयाह-- "भावग्रहणमुत्तरार्थम्" इति। एतेन "हनस्त च"
३।१।१०८ इत्यत्रोपयोगमाह-- तत्र भाव एव यथा स्यात्। "भव्यम्" इति। अचो यत्"
३।१।९७, धातोर्गुणः, "धातोस्तन्निमित्तस्यैव"
६।१।७७ इत्यवादेशः॥
भुवो भावे। ब्राहृभूयमिति। कित्त्वान्न गुणः। क्लीबत्वं लोकात्। भव्यमिति। भाव इत्यर्थः। अत् सुबुपपदत्वाऽभावाद्यदेव, गुणः, "वान्तो यी"त्यवादेशः। प्रभव्यमिति। प्रभाव इत्यर्थः।