पूर्वम्: ३।४।६९
अनन्तरम्: ३।४।७१
 
सूत्रम्
तयोरेव कृत्यक्तखलर्थाः॥ ३।४।७०
काशिका-वृत्तिः
तयोरेव कृत्यक्तखलर्थाः ३।४।७०

तयोरेव भावकर्मणोः कृत्यसंज्ञाकाः क्तखलर्थाश्च प्रत्यया भवन्ति। एवकारः कर्तुरपकर्शणार्थः। कृत्याः कर्मणि कर्तव्यः कटो भवता। भोक्तव्य ओदनो भवता। भावे आशितव्यं भवता। शयितव्यं भवता। क्तः कर्मणि कृतः कटो भवता। भुक्त ओदनो भवता। भावे आसितं भवता। शयितं भवता। खलर्थाः कर्मणि ईषत्करः कटो भवता। सुकरः। दुष्करः। भावे ईषदाढ्यंभवं भवता। स्वाढ्यंभवं भवता। भावो चाक्रमकेभ्यः इत्यनुवृत्तेः सकर्मकेभ्यो भावे न भवन्ति।
लघु-सिद्धान्त-कौमुदी
तयोरेव कृत्यक्तखलर्थाः ७७३, ३।४।७०

एते भावकर्मणोरेव स्युः॥
न्यासः
तयोरेव कृत्यक्तखलर्थाः। , ३।४।७०

"तयोरेव भावकर्मणोः" इति। एतेन "तयोः" इत्यनेन "भावकर्मणोः" इत्यस्य प्रत्यवमर्श इति दर्शयति। ननु चानन्तरसूत्रे द्वे वाक्ये-- "लः कर्मणि भवन्ति कत्र्तरि च" इत्येकं वाक्यम्, "भावे चाकर्मकेभ्योऽपि भवन्ति कत्र्तरि च" इति द्वितीयम्, तत्रानन्तरवाक्यश्रुतयोः कर्त्तृभावयोरेव तयोरित्यनेन प्रत्यवमर्शो युक्तः? नैष दोषः। यदयमुत्तरसूत्रे "कत्र्तरि च" ३।४।७१ इति करोति,ततोऽवसीयते--- भावकर्मणोरेव प्रत्यवमर्श इति यदि भावकत्र्रोरेव प्रत्यवमर्शः स्यात्, कर्त्तृग्रहणमनर्थकं स्यात्; कत्र्तर्यनेनैव सिद्धत्वात्। एवं हि तत्र वक्तुं युक्तं स्यात्-- कर्मणि चेति, कर्मणि केनचिदप्राप्तः स्यात्। यदा पुनरिह भावकर्मणोः प्रत्यवमर्शस्तदा युक्तं कत्र्तरिग्रहणम्, कत्र्तर्यप्राप्ते यथा स्यात्। यथाप्राप्तं भावकर्मणोः। तस्माद्भावकर्मणोरेव प्रत्यवमर्शो युक्तः। "एवकारः" इत्यादिना एवकारस्य व्यवच्छेद्यं अपकर्षणार्थः = निवृत्त्यर्थः। "शयितम्" इति। "निष्ठा शीङ" १।२।१९ इत्यादिना कित्त्वप्ररतिषेधाद्गुणः। "ईषत्करः,सुकरः" इति। "ईषदुःसुषु" ३।३।१२६ इत्यादिना खल्। "ईषदाढ()ंभवम्" इति। अत्रापि "कर्त्तृकर्मणोश्च भूकृञोः ३।३।१२७
बाल-मनोरमा
तयोरेव कृत्यक्तखलर्थाः ६५४, ३।४।७०

तयोरेव कृत्यखलर्थाः। "लः कर्मणि च भावे चे" ति सूत्रोपात्ते भावकर्मणी तच्छब्देन कृत्संज्ञकतया प्राप्तकत्र्रर्थकत्वस्याऽभावमनुवदन् कृत्यसंज्ञया वैशेषिक्या कृत्संज्ञाया अबाधं गमयति।

तत्त्व-बोधिनी
तयोरेव कृतयक्तखलर्थाः ५४४, ३।४।७०

तयोरेव। तच्छब्देन भावकर्मणी परामृश्येते, एवकारस्तु क्रतृयोगव्यवच्छेदार्थः। तदाह--भावकर्मणोरेवेति। यद्यप्येतत्तक्रकौण्डिन्यन्यायेनैव लभ्यते तथापि स्पष्टप्रतित्त्यथमेवकार इत्येके। तन्न्यायस्याऽनित्यज्ञापनार्थमित्यन्ये।