पूर्वम्: ३।१।११४
अनन्तरम्: ३।१।११६
 
सूत्रम्
भिद्योद्ध्यौ नदे॥ ३।१।११५
काशिका-वृत्तिः
भिद्यौद्ध्यौ नदे ३।१।११५

भिदेरुज्झेश्च क्यप् निपात्यते नदे ऽभिधेये। उज्झेर् धत्त्वं च। भिनत्ति कूलं भिद्यः। उज्झति उदकम् उद्ध्यः। नदे इति किम्? भेत्ता। उज्झिता।
न्यासः
भिद्योद्ध्यौ नदे। , ३।१।११५

"उज्झेश्च" इति। "उज्झ उत्सर्गे" (धा।पा।१३०४)। "कत्र्तरि क्यब् निपात्यते" इति। तृजादेरपवादः॥
बाल-मनोरमा
भिद्योद्ध्यौ नदे ६८६, ३।१।११५

भिद्योध्यौ नदे। क्यबिति। "नद विशेषे कर्तरि निपात्यते" इति शेषः।

तत्त्व-बोधिनी
भिद्योद्भ्यौ नदे ५७०, ३।१।११५

भिद्योद्भ्यौ। क्यबिति। "कर्तरी"ति शेषः। उद्ध्य इति। "तोयदागम इवोद्ध्यभिद्ययोर्नामधेयसदृशं विचेष्टित"मिति रघुः।