पूर्वम्: ३।१।११५
अनन्तरम्: ३।१।११७
 
सूत्रम्
पुष्यसिद्ध्यौ नक्षत्रे॥ ३।१।११६
काशिका-वृत्तिः
पुष्यसिद्ध्यौ नक्षत्रे ३।१।११६

पुषेः सिधेश्च अधिकरणे क्यप् निपात्यते नक्षत्रे अभिधेये। पुष्यन्ति अस्मिन्नर्थाः इति पुष्यः। सिध्यन्ति अस्मिन्निति सिद्ध्यः। नक्षत्रे इति किम्? पोषणम्। सेधनम्।
न्यासः
पुष्यसिद्ध्यौ नक्षत्रे। , ३।१।११६

"पुषेः सिद्धेश्च" इति। "पुष पुष्टौ" (धा।पा।११८२) "{षिधु धा।पा।}सिधु संराद्धौ (धा।पा।११९२)। "अधिकरणे क्यब् निपात्यते" इति। ल्युटोऽपवादः।
बाल-मनोरमा
पुष्यसिद्ध्यौ नक्षत्रे ६८७, ३।१।११६

पुष्यसिध्यौ। "निपात्येते" इति शएषः। नक्षत्रविशेषे गम्ये इत्यर्थः।

तत्त्व-बोधिनी
पुष्यसिद्ध्यौ नक्षत्रे ५७१, ३।१।११६

पुष्यसिद्ध्यौ। नक्षत्रे किम्?। पोषणं, सेधनम्। अधिकरणे ल्युट्। पुष्यसिध्ययोः पर्यायत्वेऽपि स्वरूपपरत्वात्सूत्रे द्वन्द्वः। "पुष्ये तु सिध्यतीष्यौ" इत्यमरः।