पूर्वम्: ३।१।१२५
अनन्तरम्: ३।१।१२७
 
सूत्रम्
आसुयुवपिर(पिल)पित्रपिचमश्च॥ ३।१।१२६
काशिका-वृत्तिः
आसुयुवपिरपिलपित्रपिचमश् च ३।१।१२६

आङ्पूर्वात् सुनोतेः यु वपि रपि लपि त्रपि चम इत्येतेभ्यश्च ण्यत् प्रत्ययो भवति। यतो ऽपवादः आसाव्यम्। याव्यम्। वाप्यम्। राप्यम्। लाप्यम्। त्राप्यम्। आचाम्यम्। अनुक्तसमुच्चयार्थश्चकारः। दभि दाभ्यम्।
न्यासः
आसुयुवपिरपिलपित्रपिचमश्च। , ३।१।१२६

"यतोऽपवादः" इति। "षृञ् अभिषवे" (धा।पा।१२४७), "यु मिश्रणे" (धा।पा।१०३३) अनयो रजन्त्वात्। "डुवप बीजतन्तुसन्ताने" (धा।पा।१००३), "रप लप व्यक्तायां वाचि" (धा।पा।४०१,४०२), "त्रपूष् लज्जायाम्" (धा।पा।३७४), "चमु अदने" (धा।पा।४६९)--एषामदुपधत्वनात् पवर्गान्तत्वात्। "दाभ्यम्" इति। दभिर्धातुष्वपठित एव प्रकृत्यन्तरमस्ति चुलुम्पवत्॥