पूर्वम्: ३।१।१२६
अनन्तरम्: ३।१।१२८
 
सूत्रम्
आनाय्योऽनित्ये॥ ३।१।१२७
काशिका-वृत्तिः
आनाय्यो ऽनित्ये ३।१।१२७

आनाय्यः इति निपात्यते अनित्ये ऽभिधेये। नयतेराङ्पूर्वाण् ण्यदायादेशौ निपात्येते। आनाय्यो दक्षिणाग्निः। रूढिरेषा। तस्माद् नित्यविशेषे दक्षिणाग्नावेव अवतिष्ठते। तस्य च अनित्यत्वं नित्यम् अजागरणात्। यश्च गार्हपत्यादानीयते दक्षिणाग्निराहवनीयेन सह एकयोनिः, तत्र तन् निपातनं, न दक्षिणाग्निम् आत्रे। तस्य हि योनिर् विकल्प्यते वैश्यकुलाद् वित्तवतो भ्राष्ट्राद्वा गार्हपत्याद् वा इति। आनाय्यो ऽनित्य इति चेद् दक्षिणाग्नौ कृतं भवेत्। एकयोनौ तु तं विद्यादानेयो ह्यन्यथा भवेत्।
न्यासः
आनाय्योऽनित्ये। , ३।१।१२७

"ण्यन्निपात्यते" इति। यति प्राप्ते। यद्यनित्ये निपात्यते घटादिष्वप्यतिप्रसङ्गः, तेषामनित्यत्वादित्याह-- "रूढः" इत्यादि। सत्यपि प्रवृत्तिनिमित्तत्वे रूढ()आ नियतविषयत्वाच्()शब्दा विशिष्ट एवार्थे वत्र्तन्ते, नाविशिष्टे, मयूरादिशब्दवत्। न हि मह्रां रौतीति सर्वो मयूर इत्युच्यते, नापि गच्छतीति सर्वो गौरित्युच्यते, किं तर्हि? विशिष्ट एव प्राणी। तस्माद्रूढिशब्दाद्दक्षिणाग्नावेव वत्र्तते, न घटादिषु। "नित्यमजागरणात्" इति। सततमज्वलनादित्यर्थः। ज्वलनमेव हि तस् जागरणम्। दक्षिणाग्नावपि विशिष्ट एवावतिष्ठते न सर्वत्रेति दर्शयितुमाह-- "यश्च" इत्यादि। किं पुनस्तस्य योनिवकल्पोऽस्ति, येनैवं विशिष्यते? इत्याह-- "तस्य हि" इत्यादि। योनिः = कारणमित्यर्थः। "वै()आकृलात्" इत्यादिना योनिविकल्पं दर्शयति। "आनाय्योऽनित्य इति चेत्" इति। घटादिष्वपि प्राप्नोतीति शेषः। "दक्षिणाग्नौ कृतं भवेत्" इति। "आनाय्यः" इत्येतस्मिन्निपातनं दक्षिणाग्नावेव विशिष्टे कृतं भवेत्, नान्यत्र। लिङ सम्भावनायाम्। एतत् सम्भाव्यते, नान्यथेत्यर्थः। "एकयोनौ च तं विद्यात्" इति। तमानाय्यशब्दमाहवनीयेन य एकयोनिर्दक्षिणाग्निस्तत्र विद्याजानीयादित्यर्थः। चशब्दोऽवधारणे-- एकयोनावेव। "आनेयो ह्रन्यथा भवेत्" इति। घटादावनित्ये दक्षिणाग्नौ चाहवनीयेन भिन्नयोनौ "अचो यत्" ३।१।९७ इति यति कृत आनेय इत्येवं भवति॥।
बाल-मनोरमा
अनाय्योऽनित्ये ७०५, ३।१।१२७

अनाय्योऽनित्ये। "अनित्ये" इति च्छेदः। दक्षिणाग्निविशेषएवेति। वार्तिकमिदम्। स हीति। दक्षिणाग्निर्ह अग्निहोत्रार्थमहरर्गार्हपत्यादेः प्रणीयत इत्यर्थः। एतेन आङ्पूर्वकस्य नयतेरर्थ उक्तः। अनित्यश्चेति। गार्हपत्यवन्नित्यधारणाऽभावादिति भावः। तदाह-- सततमिति। सततं धारणाऽभावादित्यर्थः। प्रमैइतस्य दक्षिणाऽग्नेस्तत्तत्कर्मणि समाप्ते लौकिकत्वमुक्तं कल्पसूत्रेषु -- "अप्रवृत्ते कर्मणि लौकिकं संपद्यतेट इति। ततश्चपुनःपुनः प्रणयनादनित्यत्वं दक्षिणाग्नेरिति बोध्यम्। यद्यप्याहवनीयस्यापि पुनःपुनः प्रणयनमस्ति, तथापि "दक्षिणाऽग्निविशेष एवे"ति वार्तिकान्नाहवनीयस्य ग्रहणमित्यर्थः। विशेषग्रहणान्नित्यधारणपक्षे दक्षिणाग्निरिह न गृह्रते इति सूचितम्, गतश्रियां दक्षिणाग्नेरपि नित्यधार्यत्वात्, "गतश्रियो नित्यधार्या अग्नयः"इति वचनादित्यलं पल्लवितेन। वैश्यकुलादानीत इति। दक्षिणा()ग्न प्रकृत्यहि श्रूयते-- "अहरहरेवैनं वैश्यकुलादाहरन्िति। तथाविधदक्षिणाग्नौ वाच्ये आनेयशब्द एवेति भावः।

तत्त्व-बोधिनी
आनाय्योऽनित्ये ५८६, ३।१।१२७

वैश्यकुलादेरिति। दक्षिणाग्नेर्हि योनिर्विकल्प्यते,--- "वैश्यकुलाद्वित्तवतोभ्राष्ट्राद्वा गार्हपत्याद्वे"ति।