पूर्वम्: ३।१।१३१
अनन्तरम्: ३।१।१३३
 
सूत्रम्
चित्याग्निचित्ये च॥ ३।१।१३२
काशिका-वृत्तिः
चित्याग्निचित्ये च ३।१।१३२

चित्यशब्दो ऽग्निचित्याशब्दश्च निपात्येते। नीयते ऽसौ चित्यो ऽग्निः। अग्निचयनम् एव अग्निचित्या। भावे यकरप्रत्ययः तुक् च। तेन अनतोदात्तत्वं भवति। अग्नावित्येव। चेयम् अन्यत्।
न्यासः
चित्याग्निचित्ये च। , ३।१।१३२

"तेनान्तोदात्तत्वं भवति" इति। यत्प्रत्ययान्तनिपातने हि प्रत्ययस्वरेणान्तोदात्तत्वं पदस्य भवति। ण्यति तु सति तित्स्वरितत्वं भवति। तस्मात् प्रकृतं त्यक्त्वा यप्रत्ययो निपात्यत इति भावः॥
बाल-मनोरमा
चित्याग्निचित्ये च ७१०, ३।१।१३२

चित्याग्निचित्ये च। चित्यश्च अग्निचित्या चेति द्वन्द्वः। अग्नौ निपात्येते। चित्योऽग्निरिति। कर्मणि ण्यत्,तुकच निपात्यते। अग्नेश्चयमिति। अग्निशब्दे षष्ठ()न्ते उपपदे चिणो ण्यत्,तुक् च। स्त्रीत्वं लोकात्। "प्रैषातिसर्गे"ति व्याख्यातमपि स्मार्यते। गम्यमिति। "पोरदुपधा"दिति ण्यदपवादः क्यप्। ननु सामान्येन बावकर्मणोर्विहितानां कृत्यानां प्रैषादिषु तदभावे च सिद्धेः प्रैषादिषु कृत्यविधिव्र्यर्थ इत्यत कृत्यानां प्रेषाद्यभावे भावकर्मणोश्चरितार्थत्वात्। अतः प्रैषादिषु कृत्यानां लोटा कृत्यानां बाधनिवृत्त्ये पुनः कृत्यविधिरित्यर्थः। ननु वासरूपविधिनैव लोटा प्रैषादिषु कृत्यानां बाधो न भविष्यतीत्यत आह-- स्त्र्यधिकारादूध्र्वमिति। "स्त्रियां क्ति"न्नित्यत ऊध्र्वमित्यर्थः। "प्राक् स्त्रिया वासरूपविधिः" इति भाष्यम्। ननु स्त्र्यधिकारादूध्र्वं वाऽसरूपवदेरप्रवृत्तौ "स्त्रियां क्ति"न्निति सामान्यविहितस्य कित्नः "षिद्भिदादिभ्योऽभि" ति विशेषविहितेन नित्यबाधः स्यात्, ततः -- क्षमा क्षान्ति, भिदा भित्तिरित्यादि न स्यादित्यत आह-- क्वचिन्नेति। "क्वचि"दित्यस्याऽनिर्धारणादाह-- तेनेति। सिद्धमिति। एषु वासरूपविधित्यत्र सङ्कोच इति भावः। अत्र व्याख्यानमेव शरणम्। अर्हे कृत्यतृचश्चेति। प्राग्व्याख्यातं विशेषविवक्षया स्मार्यते। "लिङ्यदी"त्यतो लिङनुकर्षार्थश्चकार इत्युक्तं प्राक्। ननु अर्हे अनर्हे च सामान्यविधानादेव अर्हेऽपि कृत्यतृचोः सिद्धयोः पुनस्तद्विधिव्र्यर्थ इत्यत आह-- लिङा बाधेति। "अर्हे चे"त्येतावत्येव उक्ते चकारानुकृष्टस्य लिङ एवार्हे विधिः स्यात्, तथा च अर्हे कृत्यतृचोर्विधिर्न स्यात्, अर्हे विशेषविहितेन लिङा बाधात्, अनर्हे कृत्यतृचोश्चरितार्थत्वात्। वासरूपविधिस्तु स्त्र्यधिकारादूर्द्ध्वं न प्रवर्तते इत्युक्तमेव। अतो लिङा बाधा मा भूदिति कृत्यतृचोर्विधिरित्यर्थः।

तत्त्व-बोधिनी
चित्याग्निचित्ये च ५९१, ३।१।१३२

चित्योऽग्निरिति। चिनोतेः कर्मणि क्यप्। यतोऽपवादः। इह सूत्रे अग्नावित्यनुवर्तते, तच्च चित्यशब्दस्यैव विशेषणं, न द्वितीयस्य। तस्य भावार्थकत्वेनाऽग्निवाचकत्वाऽसंभवात्। अग्नेरन्यत्र चेयमित्येव। शब्दकौस्तुभादौ तु अग्निचित्येत्यत्र भावे यकारप्रत्ययस्तुक् च निपात्यते न तु क्यप्। तेनान्तोदात्तत्वं भवति। क्यपि तुकृते क्यपः पित्त्वादनुदात्तत्वे धातुस्वरेण चित्य इवाद्युदात्तः स्यादिति स्थितम्। ननु वासरूपविधना कृत्या अपि भविष्यन्तीत्यत आह-- स्त्र्यधिकारादूध्र्वमित्यादि। क्तल्युडिति। हसितं हसनं छात्रस्य। "नपुंसके भावे क्तः" "ल्युट् चे" त्यनयोर्विषये भावे इति घञ्न। इच्छति भोक्तुम्। अत्र "इच्छार्थेषु लिङ्लोटौ" इति लोण्न। लिङ् तु भवत्येव,"समानकर्तृकेषु तुमुन्" लिङ् चे"ति वचनात्। ईषत्पानः। "अतो यु"जिति युच्। अत्र "ईषद्दुःसुषु"इति खल् न। लिङा बाधेति। चकारेण "लिङ् यदी"त्यतो लङनुकृष्यत इति भावः।