पूर्वम्: ३।१।१३०
अनन्तरम्: ३।१।१३२
 
सूत्रम्
अग्नौ परिचाय्योपचाय्यसमूह्याः॥ ३।१।१३१
काशिका-वृत्तिः
अग्नौ परिचाय्यौपचाय्यसमूह्याः ३।१।१३१

परिचाय्य उपचाय्य समूह्य इत्येते शब्दा निपात्यन्ते अग्नावभिधेये। परिपूर्वतुपपूर्वाच् च चिनोतेर् ण्य दायादेशौ निपात्येते। परिचाय्यम्। उपचाय्यः। सम्पूर्वाद् वहेः सम्प्रसारणं दीर्घत्वं च निपात्यते। समूह्यं चिन्वीत पशुकामः। अग्नौ इति किम्? परिचेयम्। उपचेयम्। संवाह्यम्।
न्यासः
अग्नौ परिचाय्योपचाय्यसमूह्राः। , ३।१।१३१

"संपूर्वाद्वहेः" इत्यादि। हलन्तत्वाण्ण्यत् सिद्ध एव; त()स्मस्तु सति सम्प्रसारणं न प्राप्नोति; अकित्त्वात्। ण्यतः कृतेऽपि सम्प्रसारणे "हलः" ६।४।२ इति दीर्घत्वं न प्राप्नोति; यसमादङ्गावयवाद्धल उत्तरं यत् सम्प्रसारणं तदन्तस्याङ्गस्य दीर्गत्वं विधीयते; न चायमेवम्प्रकारोऽस्ति,अत उभयं निपात्यते। न सम्पूर्वादूहेः सामान्यविहितेन ण्यतैव सिध्यति। अग्नावेव वहेः सम्पूर्वाण्ण्यद्यथा स्यात्, इह मा भूत्-- संवोढव्यो ब्राआहृण इति॥
बाल-मनोरमा
अग्नौ परिचाय्योपचाय्यसमूह्राः ७०९, ३।१।१३१

अग्नौपरिचाय्य। अग्नौ गम्ये --परिचाय्य, उपचाय्य, समूह्र एते निपात्यन्ते। अग्निशब्द इष्टकारचित्तस्थण्डिलविशेषे वर्तते, यन्मृदा चाद्भिश्चाग्निश्चीयतेऽथ कस्मादग्निरुच्यत इति यच्छन्दोभिश्चिनोत्यग्नयो वै छन्दांसी तस्मादग्निरुच्यतेऽथो इयं वा अगनिर्वै()आआनरो यन्मृदा चिनोति तस्मादग्निरुच्यते" इति वाक्यशेषाच्च। तदाह-- अग्निधारणेति। तत्र परिपूर्वादुपपूर्वाच्च चिञः कर्णि ण्यत्, आयादेशश्च निपात्यते। संपूर्वस्य वहेस्तु कर्मणि ण्यति संप्रसारणं, दीर्घश्च निपात्यते। "समूह्रं चिन्वीत पशुकामः, परिचाय्यंचिन्वीत ग्रामकामः"इति तैत्तिरीयश्रुतौ परिचाय्यसमूह्रौप्रसिद्धौ। उपचाय्यस्त्वग्निःक्वचिच्छाखायामन्वेषणीयः।

तत्त्व-बोधिनी
अग्नौ परिचाय्योपचाय्यसमूह्राः ५९०, ३।१।१३१

अग्नौ परि।अग्निरिह न ज्वलनः,किं तु तद्धारणार्थमिष्टकाचयनेन निर्मितं स्थलं, तदाह--स्थलविशेष इति। एते साधव इति। स्थलविशेषेऽभिधेये परिपूर्वाच्चिनोतेण्र्यदायादेशयोः, संपूर्वस्य वहेस्तु संप्रसारणदीर्घयोश्च निपातनादिति भावः।