पूर्वम्: ३।१।१४०
अनन्तरम्: ३।१।१४२
 
सूत्रम्
श्याऽ‌ऽद्व्यधास्रुसंस्र्वतीणवसाऽवहृलिह- श्लिषश्वसश्च॥ ३।१।१४१
काशिका-वृत्तिः
श्याऽअद्व्यधाऽस्रुसंस्र्वतीणवसाऽवहृलिहश्लिषश्वसश् च ३।१।१४१

अनुपसर्गातिति, विभाषा इति च निवृत्तम्। श्यैङः, आकारान्तेभ्यश्च धातुभ्यः, व्यध आस्रौ संस्रौ अतीणवसा अवहृ लिह श्लिष श्वस इत्येतेभ्यश्च ण प्रत्ययो भवति। आकारान्तत्वादेव श्यायतेः प्रत्यत्ये सिद्धे पुनर् वचनं बाधकबाधनार्थम्। उपसर्गे कं बाधित्वा ऽयम् एव भवति। अवश्यायः। प्रतिश्यायः। दायः। धायः। व्याधः। आस्रावः। संस्रावः। अत्यायः। अवसायः। अवहारः। लेहः। श्लेषः। श्वासः।
न्यासः
श्याऽ‌ऽद्वयधारुआऊसंरुआवतीणवसावह्मलिहश्लिष�आसश्च। , ३।१।१४१

"श्येङ गतौ" (धा।पा।९६३)। आदित्याकारान्तानां दाधाप्रभृतीनां ग्रहणम्। "व्यध ताडने" (धा।पा।११८१), "रुआउ गतौ" (धा।पा।९४०) आङ्पूर्वः, पुनः स एव संपूर्वः। "इण् गतौ" (धा।पा।१०४५) अतिपूर्वः,"षोऽन्तकर्मणि" (धा।पा।११४७) अवपूर्वः। "ह्मञ् हरणे" (धा।पा।८९९) अवपूर्वः। "लिह आस्वादने" (धा।पा।१०१६), "श्लिष आलिङ्गने" (धा।पा।११८६), "()आस प्राणने" (धा।पा।१०६९)। अत्र ये सोपसर्गाः पठितास्तेभ्यः सोपसर्गेभ्य एव भवति; शेषेभ्यस्तु सोपसर्गेभ्यः, अनुपसर्गेभ्यश्च। "अनुपसर्गादिति निवृत्तम्" इति। पुनरुत्तरत्रानुपसर्गग्रहणात्। "बिभाषेति च" इति। निवृत्तमिति सम्बध्यते। विभाषाग्रहणं ह्रनुपसर्गेण सम्बद्धम्। अतस्तन्निवृत्तौ तस्यापि निवृत्तिर्भवति। "बाधकबाधनार्थम्" इति। "आतश्चोपसर्गे" ३।१।१३६ इति विशेषविहितत्वात् कः सामान्यविहितस्य णस्य बाधकः,?तस्तद्बाधनार्थम्। अवश्यतेरप्युपादानस्यैतत् प्रयोजनं वेदितव्यम्। अथ वा-- उपसर्गनियमार्मथ तस्य ग्रहणम्, अवपूर्वादेव यथा स्यात्। "अवश्यायः" इति। "आतो युक्" ७।३।३३
बाल-मनोरमा
श्याद्व्यधारुआउसंस्व्रतीणवसावह्मलिहश्लिष�आसश्च ७२०, ३।१।१४१

श्याद्व्यधारुआउ। श्या, आत् , व्यध, आरुआउ, संरुआउ, अतीण्, अवसा, अवह्म, लिह, श्लिष, स्वस् एषामेकादशाद्यां समाहारद्वन्द्वात्पञ्चमी। अनुपसर्गादिति निवृत्तम्, उत्तरसूत्रेऽनुपसर्गग्रहणात्। एवं च तत्सम्बद्धं विभाषाग्रहणं च नानुवर्तते। तदाह-- नित्यमिति। श्यैङ इति। श्यैङ्धातोरवपूर्वस्य षोधातोश्च कृतात्त्वयोः सूत्रे निर्देशः। तयोरादन्तत्वादेव सिद्धे पुनग्र्रहणम् "आतश्चोपसर्गे" इति कप्रत्ययबाधनार्थमित्यर्थः। अवश्यायः प्रतिश्याय इति। श्यैङ आत्त्वे कृते णः। आतो युक्। आदिति। आदन्तस्योदाहरणसूचनम्। दायः धाय इति। णे आतो युक्। व्याध इति। अतिपूर्वादिण्धातोर्णे वृद्ध्यायादेशौ। अवसाय इति। अवपूर्वात् "षोऽन्तकर्मणि" इत्यस्माण्णे आतो युक्। लेहः श्लेष इति। णे लघूपधगुणः। ()आआस इति। णे उपधावृद्धिः।

तत्त्व-बोधिनी
श्याद्व्यधारुआउसंस्व्रतीणवसावह्मलिहश्लिष�आसश्च ६००, ३।१।१४१

श्याद्व्यधा। अनुपसर्गादिति निवृत्तम्, उत्तरसूत्रे पुनरनुपसर्गग्रहणात्। एवं च तत्सम्बद्धं विभाषाग्रहणमपि निवृत्तं।तदाह--नित्यमिति। इह सूत्रे श्यैङ् गतावित्यस् आत्वे शया आदिति प्रश्लेषो, न तु शीङो यणादेशेन, नाप्यततेः, अच्छब्दान्तानां वा यतिप्रभृतीनां, नाप्यकारान्तानां वा प्रश्लेषेण ग्रहणं, व्याख्यानादिति भावः। कं बाधितुमिति। अन्यथा "आतश्चोपसर्गे" इति विशेषविहितः कः सामान्यविहितस्य णस्य बाधकः स्यादित्यर्थः। रुआउ गतौ। प्राचा तु सूत्रे आश्रु संश्रु इति तालव्यं पठित्वा शृणोतिरुदाह्मतस्तदनाकरम्। तथाच प्रयुञ्जते-- "अनाश्रवा वः किमहं" कदापि वक्तुं विशेषः परमस्ति शेषः"इति नैषधादौ। अमरोऽप्याह--"वचने स्थित आश्रवः" इति। यदि तु सूत्रे अस्मिन् शृणोतेग्र्रहणं स्यात्तर्हि "ऋदोर"बिति सामान्यविहितमपं बाधित्वा आङ्पू()रवकाच्छृणोतेर्विशेषविहितो ण एव स्यात्, [तथा च "आश्रव" इति रूपं न स्यात्, किंत्वाश्राव इति स्यादिति दिक्। लेहः श्लेष इति। "इगुपधे"ति कप्रत्यये गुणो न स्ादिति भावः।