पूर्वम्: ३।१।१४१
अनन्तरम्: ३।१।१४३
 
सूत्रम्
दुन्योरनुपसर्गे॥ ३।१।१४२
काशिका-वृत्तिः
दुन्योरनुपसर्गे ३।१।१४२

दुनोतेर् नयतेश्च अनुपसर्गे णप्रत्ययो भव्ति। दुनोति इति दावः। नयति इति नायः। अनुपसर्गे इति किम्? प्रदवः। प्रणयः।
न्यासः
दुन्योरनुपसर्गे। , ३।१।१४२

"दुन्योः" इति सुब्ब्यत्ययेन पञ्चम्यर्थे षष्ठी। "अनुपसर्गे" इत्यपि पञ्चम्यर्थे सप्तमी। अत एवाह-- "दुनोतेर्नयतेश्चानुपसर्गात्" इति। "दावः" इति। "टु दु उपतापे" (धा।पा।१२५६)। "नायः" इति। "णीञ् प्रापणे" (धा।पा।९०१)। "प्रदवः, प्रणयः"इति। पचाद्यच्, "उपसर्गादसमासेऽपि" ८।४।१४ इति णत्वम्॥
बाल-मनोरमा
दुन्योरनुपसर्गे ७२१, ३।१।१४२

दुन्योरनुपसर्गे। दुनोतेर्नयतेश्चेत्यर्थः। "दव"शब्दं साधयितुमाह-- नी साहचर्यादिति। नीञ्धातुः सानुबन्धकः, तत्साहचर्यात् "टु दु उपतापे" इति स्वादिगणस्थादेव णप्रत्यय इत्यर्थः। दवतेस्त्विति। "दु द्रु गतौ" इति भौवादिकान्निरनुबन्धकात्पचाद्यजित्यर्थः।

तत्त्व-बोधिनी
दुन्योरनुपसर्गे ६०१, ३।१।१४२

दुनोतेरिति। टुदु उपतापे इत्यस्मात्। दवतेरिति। दु गतावित्यस्मात्। दव इति। "दवदावौ वनारण्यवह्नी" इत्यमरः।