पूर्वम्: ३।१।१४२
अनन्तरम्: ३।१।१४४
 
सूत्रम्
विभाषा ग्रहेः॥ ३।१।१४३
काशिका-वृत्तिः
विभाशा ग्रहः ३।१।१४३

विभाषा ग्रहेः धातोः णप्रत्ययो भवति। अचः अपवादः। ग्राहः, ग्रहः। व्यवस्थितविभाषा च इयम्। जलचरे नित्यं ग्राहः। ज्योतिषि नेस्यते, तत्र ग्रहः एव। भवतेश्च इति वक्तव्यम्। भवति इति भावः, भवः।
न्यासः
विभाषा ग्रहः। , ३।१।१४३

"व्यवस्थितविभाषा चेयम्" इति। एतत् "जलचरे" इत्यादिना स्पष्टीकरोति। "भवतेश्चेति वक्तव्यम्" इति। भवतेश्च विभाषा णो भवतीत्येतदर्थरूपं व्याख्येयम्। व्याख्यानं तु विभाषेति योगविभागात् कत्र्तव्यम्॥
बाल-मनोरमा
विभाषा ग्रहः ७२२, ३।१।१४३

विभाषा ग्रहः। व्यवस्थितविभाषेयमिति। इदं "शाच्छो"रिति सूत्रे भाष्ये स्पष्टम्। तेनेति। जलचरे मत्स्यादौ वाच्ये णप्रत्यये उपधावृद्धौ "ग्राह" इत्येव भवति, ज्योतिषि सू()रयचन्द्रादौ वाच्ये अच्प्रत्यये "ग्रह" इत्येव भवतीत्यर्थः। भवतेश्चेति। "णो वे"ति शेषः। पक्षे अच्। काशिकेति। भाष्ये तु न दृस्यते इति बावः। इयमपि व्यवस्थिविभाषैव। तदाह-- भवो देव इति। महादेव इत्यर्थः। अत्र अजेवेति भावः। भावाः पदार्था इति। अत्र ण एवेति भावः। ननु "भवतेश्चे"ति णविकल्पस्य भाष्ये अदर्शनात् कथं भाष्यमते भावशब्द इत्यत आह-- भाष्यमते त्विति। भावयति प्रापयति स्वस्वकार्यमित्यर्थे "भृ प्राप्तौ" इतिचुरादिण्यन्ताद्भावीत्यस्मादच्प्रत्यये णिलोपे भावशब्द इत्यर्थः।

तत्त्व-बोधिनी
विभाषा ग्रहः ६०२, ३।१।१४३

काशिकेति। भाष्ये त्वेतद्वार्तिकं नास्तीति तन्मते भावशब्दोऽसाधुरित्यतत आह--- भाष्यमते त्विति।