पूर्वम्: ३।१।१६
अनन्तरम्: ३।१।१८
 
सूत्रम्
शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे॥ ३।१।१७
काशिका-वृत्तिः
शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे ३।१।१७

शब्द वैर कलह अभ्र कन्व मेघ इत्येतेभयः करणे करोत्यर्थे क्यङ् प्रत्ययो भवति। शब्दम् करोति शब्दायते। वैरायते। कलहायते। अभ्रायते। कण्वायते। मेघायते। सुदिनदुर्दिननीहरेभ्यश्चेति वक्तव्यम्। सुदिनायते। दुर्दिनायते। नीहारायते। अटाट्टाशीकाकोटापोटासोटाप्रुष्टाप्लुष्टाग्रहणं कर्तव्यम्। अटायते। अट्टायते। शीकायते। कोटायते। पोटायते। सोटायते। प्रुष्टायते। प्लुष्टायते।
लघु-सिद्धान्त-कौमुदी
शब्दवैरकलहाभ्रकण्वमेघेभ्यः करणे ७३२, ३।१।१७

एभ्यः कर्मभ्यः करोत्यर्थे क्यङ् स्यात्। शब्दं करोति शब्दायते॥ (ग।सू) तत्करोति तदाचष्टे; इति णिच्॥ (ग।सू) प्रातिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च। प्रातिपदिकाद्धात्वर्थे णिच् स्यात्, इष्ठे यथा प्रातिपदिकस्य पुंवद्भाव-रभाव-टिलोप- विन्मतुब्लोप-यणादिलोप-प्रस्थस्फाद्यादेश-भसंज्ञास्तद्वण्णावपि स्युः। इत्यल्लोपः। घटं करोत्याचष्टे वा घटयति॥
लघु-सिद्धान्त-कौमुदी
इति नामधातवः ७३२, ३।१।१७

लघु-सिद्धान्त-कौमुदी
अथ कण्ड्वादयः ७३२, ३।१।१७

बाल-मनोरमा
शब्दवैरकलहाऽभ्रकण्वमेघेभ्यः करणे ४९८, ३।१।१७

शब्दवैर। करणं - क्रिया। तदाह-- करोत्यर्थे इति। "तत्करोती"ति णिचोऽपवादः। पक्षे इति। कदाचिदित्यर्थः। न्यास इति। भाष्याऽनारूढत्वमत्र अरुचिबीजम्।

सुदिनदुर्दिन इति- वार्तिकम्। "करोत्यर्थे क्य"हिति शेषः।

तत्त्व-बोधिनी
शब्दवैरकलहाऽभ्रकण्वमेघेभ्यः करणे ४२६, ३।१।१७

शब्दवैर। कर्मण इत्यनुवर्तत इत्याह-- एभ्यः कर्मभ्य इति।