पूर्वम्: ३।१।१५
अनन्तरम्: ३।१।१७
 
सूत्रम्
बाष्पोष्माभ्यां उद्वमने॥ ३।१।१६
काशिका-वृत्तिः
बाष्पौउष्मभ्याम् उद्वमने ३।१।१६

कर्मणः इति वर्तते। बाष्पशब्दादूष्मशब्दाच् च कर्मन उद्वमने ऽर्थे क्यङ् प्रत्ययो भवति। बाष्पम् उद्वमति बाष्पायते। ऊष्मायते। फेना च्चेति वक्तव्यम्। फेनम् उद्वमति फेनायते।
न्यासः
बाष्पोष्मभ्यामुद्ववने। , ३।१।१६

"फेनाच्चेति वक्तव्यम्" इति। फेनशब्दाद्वमनेऽर्थे वत्र्तमानात् क्यङ भवतीत्येतदर्थरूपं व्याख्येयम्। व्याख्यानं तु-- "भृशादिभ्यः" ३।१।१२ इत्यतः सूत्राच्चकारमनुक्तसमुच्चयार्थमनुवर्त्त्य कत्र्तव्यम्॥ करणशब्देनात्र क्रियोच्यते, न साधकतमम्। यस्मात् "कर्मणः" ३।१।१५ इत्यधिकाराच्छब्दादिभ्यः कर्मभ्य एव प्रत्ययेन भवितव्यम्। तत्र यदि साधकतमे प्रत्ययः स्यात् प्रकृतिप्रत्ययावसम्बद्धौ स्याताम्, क्रियापेक्षत्वाच्च कर्मत्वस्य क्रियाया अभावे कर्मत्वं न स्यात्। तस्मात् क्रियावचन एव करणशब्दं निश्चित्याह-- "करणे करोत्यर्थे"इति। "सुदिन" इत्यादि। सुदिनादिभ्यः कर्मभ्यः करमए करोत्यर्थे क्यङप्रत्ययो भवति#ईत्येतदर्थरूपं व्याख्येयम्। व्याख्यानं तु-- इहापि तमेवानुक्तसमुच्चयार्थ चकारमनुवर्त्त्य कत्र्तव्यम्। अत एवानुक्तसमुच्चयार्थाच्चाकारादटादीनामपि ग्रहणम्। तेनटायत इत्याद्यपि सिद्धं भवति। "अटाट्ट" इत्यादि। अटादीनां ग्रहणमुपादानमित्यर्थः। अयञ्च "तत्करोति" (वा।२००) इति णिचि प्राप्त आरम्भः; सोऽपीष्यते-- शब्दयति, वैरयतीति। तस्मादेतदर्थापि चकारानुवृत्तिर्वेदितव्या॥
बाल-मनोरमा
बाष्पोष्मभ्यामुद्वमने ४९७, ३।१।१६

बाष्पोष्मभ्यामुद्वमने। आभ्यां कर्मभ्यामिति। "कर्मणो रोमन्थे"त्यतः कर्मकारकवृत्तिभ्यामित्यर्थः। फेनायते इति। फेनमुद्वमतीत्यर्थः।