पूर्वम्: ३।१।२७
अनन्तरम्: ३।१।२९
 
सूत्रम्
गुपूधूपविच्छिपणिपनिभ्य आयः॥ ३।१।२८
काशिका-वृत्तिः
गुपूधूपविच्छिपणिपनिभ्य आयः ३।१।२८

गुपू रक्षणे, धूप सन्तापे, विच्छ गतौ, पण व्यवहारे स्तुतौ च, पन च इत्येतेभ्यो धातुभ्यः आयप्रत्ययो भवति। तोपायति। धूपयति। विच्छायति। पणायति। पनायति। स्तुत्यर्थेन पनिना साहचर्यात् तदर्थः पणिः प्रत्ययम् उत्पादयति न व्यवहारार्थः। शतस्य पणते। सहस्रसय पणते। अनुबन्धश्च केवले चरितार्थः, तेन आयप्रत्ययान्तान्नात्मनेपदं भवति।
लघु-सिद्धान्त-कौमुदी
गुपूधूपविच्छिपणिपनिभ्य आयः ४६९, ३।१।२८

एभ्य आयः प्रत्ययः स्यात् स्वार्थे॥
न्यासः
गुपूधूपविच्छिपणिपनिभ्य आयः। , ३।१।२८

"स्तुत्यर्थेन" इत्यादि। "पण व्यवहारे स्तुतौ च" (धा।पा। ४३९) "पन च" (धा।पा।४४०) इत्यनयाऽनुपूव्र्या गणे पाठः। तत्र "पन च" (धा।पा।४४०) इत्यत्र स्तुतावित्यनुवत्र्तते, न व्यवहारार्थः तेन पणिव्र्यवहारार्थः, स्तुत्यर्थश्च,पनिः स्तुत्यर्थ एव। तदिह स्तुत्यर्थेन पणिना साहचर्यात् पनेरपि स्तुत्यर्थ एव गृह्रते। तेनासौ स्तुतावेव वत्र्तमानः प्रत्ययमुत्पादयति, न तु व्यवहारे। "शतस्य" इति। "व्यवह्मपणोः समर्थयोः" २।३।५७ इति कर्मणि षष्ठी। अत्र पणायतीत्यत्रात्मनेपदं कस्मान्न भवति, यावता पणिरयमनुदात्तेत् पठ()ते? तत्र "अनुदात्तङितः" १।३।१२ इति यथा केवलादात्मनेपदं भवति तथायपत्प्रत्ययान्तादपि तेन भवितव्यमित्यत आह-- "अनुबन्धः" इत्यादि। यो हि तस्यानुबन्धः स आयप्रत्ययरहिते पणतौ चरितार्थः = कृतात्मनेपदकार्यः, तेनायप्रत्ययान्तादात्मनेपदं न भवति; तस्य धात्वन्तरत्वात्॥
बाल-मनोरमा
गुपूधूपविच्छिपणिपनिभ्य आयः १४६, ३।१।२८

गुपूधूप। एभ्य इति। गुपू धूप विच्छि पणि पनि इत्येभ्य इत्यर्थः। अर्थनिर्देशाऽभावादाह-- स्वार्थ इति। आयप्रत्ययः अकारान्तः। तत्फलं तु "गोपायतं नः सुमनस्यमान" इत्यत्र गोपायेत्यस्य धातुस्वरेणान्तोदात्तत्वेन शबकारेण एकदेशस्यापि "एकादेश उदात्तेनोपादात्तः" इत्युदात्तत्वे, "त"मित्यस्य अदुपदेशात् परलसार्वधातुकत्वेन अनुदात्तस्य "उदात्तादनुदात्तस्य स्वरितः" इति स्वरितत्वमिति बोध्यम्। "धातोरेकाच" इत्यतो धातोरित्यनुवृत्त्या धातोरिति विहितत्वादायप्रत्ययस्याद्र्धधातुकत्त्वात्कार्यं गुणादि भवति। तदाह--- पुगन्तेति गुण इति।