पूर्वम्: ३।१।३१
अनन्तरम्: ३।१।३३
 
सूत्रम्
सनाद्यन्ता धातवः॥ ३।१।३२
काशिका-वृत्तिः
सनाद्यन्ता धातवः ३।१।३२

सनादिर्येषां ते सनादयः। सनादयो ऽन्ते येषं ते सनाद्यन्ताः। सनाद्यन्ताः समुदायाः धातुसंज्ञाः भवन्ति। प्रत्ययग्रहणपरिभाषा एव पदसंज्ञायाम् अन्तवचनेन लिङ्गेन प्रतिषिद्धा सती पुनरिह अन्तवचनेन प्रतिप्रसूयते। चिकीर्षति। पुत्रीयति। पुत्रकाम्यति।
लघु-सिद्धान्त-कौमुदी
सनाद्यन्ता धातवः ४७०, ३।१।३२

सनादयः कमेर्णिङन्ताः प्रत्यया अन्ते येषां ते धातुसंज्ञकाः। धातुत्वाल्लडादयः। गोपायति॥
न्यासः
सनाद्यन्ता धातवः। , ३।१।३२

"सनादयोऽन्ते येषाम्" इति वाक्यविशेषेण बहुव्रीहि दर्शयति। गमकत्वन हि व्यधिकरणानामपि बहुव्रीहिर्भवत्येव, यथा-- कण्ठेकालः, उरसिलोमेति। आदिशब्देन क्यजादीनां णिङपर्यन्तानां ग्रहणम्। "समुदायाः" इति। प्रकृतिप्रत्ययसमुदायाः। एतेन तद्गुणसंविज्ञानबहुव्रीहि दर्शयति; अन्यथा सनाद्युपलक्षितानां प्रकृतीनामेव धातुसंज्ञा विधीयेत। "{धातुसंज्ञाः-- काशिका, पदमञ्जरी च।}धातुसंज्ञकाः" इति। धातुः संज्ञा येषां ते धातुसंज्ञकाः। धातुशब्दश्चात्र स्वरूपपदार्थकः, न भूवादिपदार्थकः, अन्यथा भूवादयः सनाद्यन्तानां संज्ञाः स्युः, तच्चायुक्तम्, न हि तावतीनां संज्ञानां करणे किञ्चित् प्रयोजनमस्ति। आवर्तिन्यश्च संज्ञा भवन्ति। न हि भूवादीनामेव सर्वेषामावृत्तिः क्वचिच्छास्त्रेऽस्तीति न तत्पदार्थको धातुशब्दः। इह हि संज्ञाविधौ सनादीनां प्रत्ययनां ग्रहणम्। "सुप्तिङन्तं पदम्" १।४।१४ इत्यत्र चान्तग्रहणेन ज्ञापितमेतत-- "प्रत्ययग्रहणे यस्मात् स विहितस्तदादेस्तदन्तस्य" (पि।प।वृ।४४) इति। एषा परिभाषा संज्ञाविधौ प्रत्ययग्रहणे प्रतिषिद्धा। तत्रासत्यन्तग्रहणे तदन्तविधिर्न स्यात्, इष्यते च, अतस्तदर्थमन्तग्रहणं कृतम्, तत्रानेनान्तग्रहण#एनापूर्व एव तदन्तविधिः क्रियत इति मन्यमानो यो देशयेत् तं प्रत्याह--- यदि तर्हि सनाद्यन्तानामियं संज्ञा विधीयते तदा देवदत्तः प्राचिकीर्षदित्यत्र देवदत्तस्य सोपसर्गस्य च संज्ञा प्रसज्येतेति। अत आह-- "प्रत्ययग्रहणपरिभाषयैव" इत्यादि। न ह्रनेनान्तग्रहणेनापूर्व एव तदन्तविधिः क्रियते, किं तर्हि? पदसंज्ञाविधादन्तग्रहणेन प्रतिषिद्धा सती प्रत्ययग्रहणपरिभाषयैव पुनरिह प्रतिप्रसूयते। कृतप्रवृत्तिविधाता सती पुनः प्रवत्र्तत इत्यर्थः। ततश्च यतः सनादयो विहितास्तदादेरेव समुदयस्य संज्ञा भवति, न शब्दान्तरादेरिति भावः। अथ "भूवादयो धातवः" १।३।१ इत्यस्यानन्तरं "सनाद्यन्ताश्च इति कस्मान्नोक्तम्; एवं हि धातुग्रहणं द्विर्न कत्र्तव्यं भवति? नैवं शक्यम्, एवं हि क्रियमाणे सनादीनामियत्तापरिच्छदो न स्यात्। इह तु क्रियमाणे णिङपर्यन्तानां ग्रहणं विज्ञायते। तर्हि "सनाद्यन्ता धातवः" (३।१।३२) इत्यस्यानन्तरं "भूवादयश्च" इति कस्मान्नोक्तम्? एतदपि न; एवं हि क्रियमाणे सनाद्यन्तस्यानुक्रान्तापेक्षित्वात् भूवादीनामप्यनुक्रान्तापेक्षित्वं स्यात्; ततश्चानुक्रान्तानामेव गुपादीनां धातुसंज्ञा स्यात्, नान्येषां भूवादीनाम्। अथ भूवादीनामनुक्रान्तापेक्षा न भवति सनादीनामपि न स्यात्, ततश्च सनादयः कप्पर्यन्ता गृह्रेरन्निति सन्देहः स्यात्। तस्माद्यथान्यासमेव न्याय्यम्॥
बाल-मनोरमा
सनाद्यन्ताः धातवः १४७, ३।१।३२

नन्वायप्रत्ययान्तस्य भ्वादिषु पाठाऽभावेन धातुत्वाऽभावात् कथमस्माल्लडादय इत्यत आह-- सनाद्यन्ताः। "गुप्तिज्किद्भ्यः स"नित्यारभ्य "कमेर्णि"ङित्यन्तैः सूत्रैः सनादिप्रत्ययान्विधाय सूत्रमिदं पठितम्। सन् आदिर्येषां ते सनादयो णिङ्प्रत्ययपर्यन्ताः, ते अन्ते येषां ते सनाद्यन्ता इति विग्रहः। तदाह---सनादयः इति। "सन्क्यच्काम्यच्क्यङ्क्यषोऽथाचारक्विब्णिज्यङौ तथा। यगाय ईयङ् णिङ् चेति द्वादशाऽमी सनादयः" इति। सङग्रहः। संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणप्रतिषेधादिह तदन्तग्रहणम्। धातुत्वादिति। आयप्रत्यान्तस्येत्यर्थः। गोपायतीति। शपि "अतो गणे" इति पररूपम्।

तत्त्व-बोधिनी
सनाद्यन्ता धातवः १२०, ३।१।३२

सनाद्यन्ताः। सदनादय इति। "सन्()क्यच्()काम्यचज्()क्यङ्()क्यषोऽथाचारक्विप्()णिज्()यङौ तथा। यगाय णिङ् चेति द्वादशीमी सनादयः"। धातुत्वादिति। प्रत्ययविशिष्टस्य धातुत्वादित्यर्थः। "सुप्तिङन्त"मित्यनेन "संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ती"तिज्ञापितत्वाद्विशिष्टस्य धातुसंज्ञालाभाय अस्मिन् सूत्रे अन्तग्रहणं कृतम्। "भूवादयो धातवः" इत्यस्यानन्तरं "सनाद्यन्ताश्चे"ति न सूत्रितं, सनादयो द्वादशेवेति निर्धारणाऽलाभापत्तेः। निर्धारणाऽलाभापत्तेः। "सनाद्यन्ता धातवः" इत्यस्यानन्तरं तु "भूवादयंश्चे"ति पठित्वा "धातव" इत्येतत्तन्न त्यक्तुं शक्यम्।