पूर्वम्: ३।१।६४
अनन्तरम्: ३।१।६६
 
सूत्रम्
तपोऽनुतापे च॥ ३।१।६५
काशिका-वृत्तिः
तपो ऽनुतापे च ३।१।६५

न इति वर्तते। तप सन्तापे, अस्मात् परस्य च्लेः चिणादेशो न भवति कर्मकर्तरि अनुतापे च। अनुतापः पश्चात्तपः। तस्य ग्रहणम् कर्मकर्त्रर्थं, तत्र हि भावकर्मणोरपि प्रतिषेधो भवति। अतप्त तपस्तापसः। अन्ववातप्त पापेन कर्मणा।
लघु-सिद्धान्त-कौमुदी
तपोऽनुतापे च ७५९, ३।१।६५

तपश्च्लेश्चिण् न स्यात् कर्मकर्तर्यनुतापे च। अन्वतप्त पापेन। घुमास्थेतीत्त्वम्। दीयते। धीयते। ददे॥
न्यासः
तपोऽनुतापे च। , ३।१।६५

"तपस्तपः कर्मकस्यैव" ३।१।८८ इत्यतिदेशात् "चिण् भावकर्मणोः" ३।१।६६ इति प्राप्तस्य चिणोऽयं प्रतिषेधः। "अतप्त तपस्तापसः" इति। उपवासादिलक्षणं तपस्तापसं तपति दुःखयतीत्यर्थः। तपसोऽत्र कर्त्तृत्वम्, तापसस्य तु कर्मत्वम्। यदा तु स तापस्त्वगस्थीभूतः स्वर्गाय तपस्तप्यते, तदायं प्रयोगः- अतप्त तपस्तापस इति। इदानां तपसः कर्मत्वं तापसस्य कर्त्तृत्वम्। तपःशब्दश्चेह ज्ञानविशेषे स्वर्गाद्यवाप्तिहेतौ वत्र्तते। तपिरप्यर्जने। अर्जितवान् ज्ञानविशेषं तापस इत्यर्थः। "अन्ववातप्त पापेन कर्मणा" इति। यत् पूर्वं पापकर्म कृतं तेन पश्चात् तप्तोऽभ्याहत इत्यर्थः। कर्मण्यत्र लकारः॥
तत्त्व-बोधिनी
तपोऽनुतापे च ४८१, ३।१।६५

तपोऽनु चकारेण "अचः कर्मकर्तरी" त्यतः कर्मकर्तरीत्येतदनुकृष्यते। कर्मण्युदाहरणमिति ध्वनयति-- अभ्याहत इत्यर्थ इति। भावेऽपीदमुदाहरणमित्याह-- पापेन पुंसेति। अविचार्य कर्म कृत्वा पश्चादशोचीत्यर्थः। कर्मकर्तरि तु तत्प्रक्रियायामुदाहरिष्यति।