पूर्वम्: ३।१।६३
अनन्तरम्: ३।१।६५
 
सूत्रम्
न रुधः॥ ३।१।६४
काशिका-वृत्तिः
न रुधः ३।१।६४

रुधिरावरणे, अस्मात् परस्य च्लेः कर्मक्र्तरि चिणादेशो न भवति। अन्ववारुद्ध गौः स्वयम् एव। कर्मकर्तरि इत्येव, अन्ववारोधि गौः गोपालकेन।
न्यासः
न रुधः। , ३।१।६४

कर्मवदित्यतिदेशे प्राप्तस्य चिणोऽयं प्रतिषेधः। "अरुद्ध" इति। "झलो झलि" ८।२।२ इति सिचो लोपः; तस्यासिद्धत्वाल्लघूपधगुणः प्राप्तः "लिङसिचावात्मनेपदेषु" १।२।११ इति कित्त्वान्न भवति। पूर्ववद्()धत्वजश्त्वे॥
बाल-मनोरमा
न रुधः ५९४, ३।१।६४

न रुधः। अस्माच्चेश्चिण्नेति। अवारुद्ध गौरिति। "स्वयमेवे"ति शेषः। कर्मकर्तरीत्येवेति। "अचः कर्मकर्तरी"त्यतस्तदनुवृत्तेरिति भावः। अवारोधि गौर्गोपेनेति। इह गोः कर्मणः कर्तृत्वविवक्षाया अभावान्न चिण्निषेध इति भावः।

तत्त्व-बोधिनी
न रुधः ४८९, ३।१।६४

न रुधः। "चिण् ते पदः" इत्यतश्चिणनुवर्तते। "अचः कर्मकर्तरीत्येवेति।