पूर्वम्: ३।१।७६
अनन्तरम्: ३।१।७८
 
प्रथमावृत्तिः

सूत्रम्॥ तुदादिभ्यः शः॥ ३।१।७७

पदच्छेदः॥ तुदादिभ्यः ५।३ शः १।१ सार्वधातुके ७।१ ६७ कर्तरि ७।१ ६८ धातोः ५।१ २२ प्रत्ययः १।१ परश्च १।१

समासः॥

तुद आदिर्येषां ते तुदादयः, तेभ्यः, बहुव्रीहिः॥

अर्थः॥

तुद व्यथने इत्येवमादिभ्यो धातुभ्यः शः प्रत्ययो भवति कर्तृवाचिनि सार्वधातुके परतः॥

उदाहरणम्॥

तुदति। नुदति॥
काशिका-वृत्तिः
तुदादिभ्यः शः ३।१।७७

तुद व्यथने इत्येवम् आदिभ्यो धातुभ्यः शप्रत्ययो भवति। शपो ऽपवादः। शकारः सार्वधातुकसंज्ञार्थः। तुदति। नुदति।
लघु-सिद्धान्त-कौमुदी
तुदादिभ्यः शः ६५४, ३।१।७७

शपोऽपवादः। तुदति, तुदते। तुतोद। तुतोदिथ। तुतुदे। तोत्ता। अतौत्सीत्, अतुत॥ णुद प्रेरणे॥ २॥ नुदति, नुदते। नुनोद। नोत्ता। भ्रस्ज पाके॥ ३॥ ग्रहिज्येति सम्प्रसारणम्। सस्य श्चुत्वेन शः। शस्य जश्त्वेन जः। भृज्जति, भृज्जते॥
बाल-मनोरमा
तुदादिभ्यः शः ३६४, ३।१।७७

तुदादिभ्यः शः। कत्र्रर्थे सार्वधातुके परे तुदादिभ्यः शः स्यात्स्वार्थे इत्यर्थः। शबपवादः। तुदतीति। लघूपधगुणं बाधित्वा नित्यत्वात् शे कृते तस्य अपित्त्वात् "सार्वधातुकमपि" दिति ङित्त्वान् गुण इति भावः। अजन्ताऽकारवत्त्वाऽभावात्क्रादिनियमाल्लिटिथल्यपि नित्यमिट्।तदाह-- तुतोदिथेति। तोत्तेति। अनिडिति भावः। अतौत्सीदिति। हलन्तलक्षणा वृद्धिः। णुदधातुर्णोपदेशः। अनिट्।दिशधातुरप्यनिट्। देष्टेति। व्रश्चेति षत्वे ष्टुत्वम्। स्ये तु "षढो"रिति षस्य कत्वं च-- देक्ष्यति। दिक्षीष्टेति। "लिङ्सिचौ" इति कित्त्वान्न गुणः। "शल इगुपधा" दिति क्सं मत्वाह-- अदिक्षत्। अदिक्षतेति। भ्रस्ज पाके। अनिट्। भ्रस्ज अ ति इति स्थिते आह -- ग्रहिज्येति। ङित्त्वाद्रेफस्य संप्रसारममृकारः, पूर्वरूपं चेति भावः। भृस्ज् अ ति इति स्थिते आह -- सस्येत्यादि। णलि भ्रस्ज् अ इति स्थिते --

तत्त्व-बोधिनी
तुदादिभ्यः शः ३१८, ३।१।७७

तुदतीति। परमपि लघूपधगुणं बाधित्वा नित्यत्वाच्छ इत्येके। अकृतव्यूहपरिभाषया गुणो न प्रवर्तते इत्यन्ये। भ्रस्ज पाके। भर्जनरुपः पाकोऽत्र धात्वर्थो न त्वोदनादेः पाकः, तत्र प्रयोगाऽभावादित्याहुः। "भ्रस्जो" इति केषांचित्पाठे तु "ओदितश्चे"ति निष्ठानत्वप्रसक्त्या भृष्टः भृष्टवानिति न सिध्येत्।