पूर्वम्: ३।२।१०६
अनन्तरम्: ३।२।१०८
 
सूत्रम्
क्वसुश्च॥ ३।२।१०७
काशिका-वृत्तिः
क्वसुश् च ३।२।१०७

छन्दसि लिटः क्वसुरादेशः भवति। जक्षिवान्। पपिवान्। न च भवति। अहं सूर्यमुभयतो ददर्श। योगविभाग उत्तरार्थः।
लघु-सिद्धान्त-कौमुदी
क्वसुश्च ८३२, ३।२।१०७

लिटः कानच् क्वसुश्च वा स्तः। तङानावात्मनेपदम्। चक्राणः॥
न्यासः
क्वसुश्च। , ३।२।१०७

क्वसोरुगित्करणं नुमर्थम्। कित्करणं कानच इव द्रष्टव्यम्। असति हि तस्मिन् "ऋच्छत्यृनाम्"७।४।११ इति यथेह गुणो न भवति-- तेरतुः, तेरुरिति; तथेहापि ततीर्वानिति। "तृ प्लवनतरणयोः" (धा।पा।९६९), "ऋत इद्धातोः" ७।१।१० इतीत्त्वम्, "हलि च" ८।२।७७ इति दीर्घः, द्विरवचनमभ्यासकार्यम्। "जक्षिवान्" इति। "लिट()न्यतरस्याम्" २।४।४० इत्यदेर्घस्लादेशः। "वस्वेकाजाद्धसाम्" ७।२।६७ इतीट्, "घसिभसोर्हलि च" ६।४।१०० इत्युपधालोपः, "खरि च" ८।४।५४ इति घकारस्य ककारः, "शासिवसिघसीनाञ्च"८।३।६० इति षत्वम्, "कुहोश्चुः" ७।४।६२ इत्यभ्यासस्य चुत्वम्---झकारः, "अभ्यासे चर्च" ८।४।५३ इति झकारस्य जकारः। "पपिवान्" इति। "पा पाने" (धा।पा।९२५)। पूर्ववदिट्। "आतो लोप इटि च" ६।४।६४ इत्यकारलोपः। "योगविभाग उत्तरार्थः" इति। उत्तरसूत्रे क्वसोरेवानुवृत्तिर्यथा स्यात्, कानचो मा भूत्॥
बाल-मनोरमा
क्वसुश्च ८९८, ३।२।१०७

क्वसुश्च। त्रीणीमानि सूत्राणि। अत्र प्रथम सूत्रे भूत इत्यनुवृत्तिमभिप्रेत्य व्याचष्टे-- भूतसामान्ये छन्दसि लिडिति। अनद्यतनपरोक्षत्वं छन्दसि न विवक्षितमिति भावः। "लिटः कानज्वे"ति द्वितीयं सूत्रम्। तत्र छन्दसीत्यनुवर्तते, भूते इति च। छन्दसि भूते लिटः कानजादेशः स्यादित्यर्थः। लिड्ग्रहणं लिण्मात्रस्य ग्रहणार्थम्। तेन "परोक्षे लि" डिति यो लिड्विहितस्तस्यापि ग्रहणार्थः। अन्यथा "अनन्तरस्ये"ति न्यायेन प्रकृतस्यैव लिटो ग्रहणं स्यादिति वृत्तौ स्पष्टम्। वाग्रहणं तु पक्षे लिटः श्रवणाअर्थं, वासऽरूपविधिर्लादेशेषु नेति ज्ञापनार्थं वा। तत्प्रयोजनं तु "भाषायां सदवसे"त्यत्र क्वसोरेवानुवृत्त्यर्थः। इमौ कानच्क्वसू आदेशौ छन्दसि भूते लिटः क्वसुश्चादेशः स्यादित्यर्थः। योगविभागस्तु उत्तरसूत्रे क्वसोरेवानुवृत्त्यर्थः। इमौ कानच्क्वसू आदेशौ छान्दसाविति--अत्रैव भाष्यकैटयोः स्पष्टम्। तदाह--तस्येत्यादि, त्रिमुनिमतमित्यन्तम्। "विभाषा पूर्वाह्णाऽपराह्णे"ति सूत्रभाष्ये तु पपुष आगतं पपिवद्रूप्यमिति प्रयुक्तम्। तेन लोकेऽपि क्वचिक्त्वसोः साधुत्वं सूचितम्। तदाह--- कवयस्त्विति। तस्थिवांसमिति। स्थाधातोर्लिटः क्वसुः। द्वितीयैकवचने "अत्वसन्तस्ये"ति दीर्घः। उगित्()त्वान्नुम्। अधिजग्मुष इति। अधिपूर्वाद्गमेर्लिटः क्वसुः, आङोयमहने"त्युपधालोपः, शसि वसोः संप्रसारणं, पूर्रूपम् , षत्वम्।