पूर्वम्: ३।२।१०५
अनन्तरम्: ३।२।१०७
 
सूत्रम्
लिटः कानज्वा॥ ३।२।१०६
काशिका-वृत्तिः
लिटः कानज् वा ३।२।१०६

छन्दसि लिटः कानजादेशो भवति वा। अग्निं चिक्यानः। सोमं सुषुवाणः। वरुणं सुषुवानम्। न च भवति। अहं सूर्यमुभयतो ददर्श। अहं द्यावापृथिवी आततान। लिड्ग्रहणं किम्, न पूर्वस्य एव प्रकृतस्य आदेशाविधाने विभक्तिविपरिणामो भविष्यति? लिण्मात्रस्य यथा स्यात्, यो ऽपि परोक्षे विहितस् तस्य अप्ययम् आदेशो भवति।
लघु-सिद्धान्त-कौमुदी
लिटः कानज्वा ८३१, ३।२।१०६

न्यासः
लिटः कानज्वा। , ३।२।१०६

कानचश्चिकरणमन्तोदात्तार्थम्। कित्करणं कित्कार्यार्थम्। तत्पुनः "बन्ध बन्धने" (धा।पा।१५०८) इत्येवमादयः संयोगान्ताः प्रयोजन्ति,नान्ये। असंयागान्तेभ्यः "असंयोगाल्लिट् कित्" १।२।५ इति सिद्धः, संयोगान्ता अपि कित्त्वं भाषायां प्रयोजयन्ति, न छन्दसि। तत्राह-- "छन्दस्युभयथा" ३।४।११७ इति लिटः सार्वधातुकत्वात् "सार्वधातुकमपित्" १।२।४ इति ङित्त्वमस्त्येव। न कित्त्वे ङित्त्वे वा च्छन्दसि कश्चिद्विशेषोऽस्ति। भाषायां तु यद्यसंयोगान्तेभ्यः कित्त्वं न स्याद्योऽयं "ऋच्छत्यृताम्"७।४।११ इति गुणः प्रतिषेधविषय आरभ्यते स यथेह न भवति-- निपपरतुः, निपपरुरिति;तथेहापि स्यात्-- निपपुराण इति; कित्त्वे च सति न भवति। भाषायां तु कित्त्वमर्थवद्भवति। "पृ पालन पूरणयोः" (धा।पा।१०८६), निपूर्वात् कानच्। द्विर्वचनात् परत्वात् "उदोष्ठ()पूर्वस्य" ७।१।१०२ इत्युत्त्वम्, रपरत्वञ्चेति। "द्विर्वचनेऽचि" १।१।५८ इति स्थानिवद्भावात् पृशब्दो द्विरुच्यते। उरत्त्वरपरत्वहलादिशेषाः, अट्()कुप्वादिना ८।४।२ णत्वम्। भाषायां कानज्भवीत्यस्मादेव ज्ञापकादवसीयते। "चिक्यानःट इति। अभ्यासादुत्तरस्य चिनोतेश्चकारस्य "विभाषा चेः" ७।३।५८ इति कुत्वम्, "एरनेकाचः" ६।४।८२ इत्यादिना यणादेशः। "सुषुवाणः" इति। "{सुनोतेरिति-इति मुद्रितः पाठः।} सुनोतेरिति; "अचि श्नुधातु" ६।४।७७ इत्यादिनोवङादेशः, "आदेशप्रत्यययोः" ८।३।५९ इति षत्वम्। "विभक्तिविपरिणामो भविष्यति" इति। यद्यपि लिडिति प्रथमान्तं प्रकृतं तथाप्यर्थाद्विभक्तिविपरिणामो भविष्यति। आदेशम्बन्धादुत्तरस्य लिटः षष्ठ()न्तता भविष्यति।तस्मादन्तरेणापि लिड्()ग्रहणं प्रकृत्वाल्लिट एव कानजादेशो भविष्यतीति लिड्()ग्रहणं न कत्र्तव्यमिति भावः। "योऽपि" इत्यादि। योऽपि "परोक्षे लिट्()" ३।२।११५ इत्यनेनलिड्()विहितस्तस्यापि लिड्()ग्रहणे सति कानजादेशो भवति। असति तु तस्मिन् "अनन्तरस्य विधिर्वा प्रतिषेधो वा" (व्या।प।१९) इत्यस्यैव स्यात्, न परोक्षे लिटः। अथासति लिड्()ग्रहणे प्रत्ययान्तरं कानच् कस्मान्न विज्ञायते? अशक्यमेवं विज्ञातुम्, प्रत्ययान्तरे हि "न लोकाव्ययनिष्ठाखलर्थतृनाम्" २।३।६९ इति षष्ठीप्रतिषेधो न स्यात्। ततश्चा()ग्न चिक्यान इत्यत्राग्निशब्दात् षष्ठी स्यात्॥।
बाल-मनोरमा
लिटः कानज्वा ८९७, ३।२।१०६

लिटः कानज्वा।