पूर्वम्: ३।२।१०९
अनन्तरम्: ३।२।१११
 
प्रथमावृत्तिः

सूत्रम्॥ लुङ्॥ ३।२।११०

पदच्छेदः॥ लुङ् १।१ भूते ? धातोः ? प्रत्ययः ? परश्च ?

अर्थः॥

धातोः भूते (सामान्ये) काले लुङ्-प्रत्ययः परश्च भवति।

उदाहरणम्॥

अकार्षीत्, अहार्षीत्
काशिका-वृत्तिः
लुङ् ३।२।११०

भूते इत्येव। बूते ऽर्थे वर्तमानाद् धातोः लुङ् प्रत्ययो भवति। अकार्षीत्। अहार्षीत्। वसतेर् लुङ् रात्रिविशेषे जागरणसन्ततौ वक्तव्यः। क्व भवानुषितः। अहमत्रावात्सम्।
लघु-सिद्धान्त-कौमुदी
लुङ् ४३६, ३।२।११०

भूतार्थे धातोर्लुङ् स्यात्॥
न्यासः
लुङ्। , ३।२।११०

ङकारः "नित्यं ङितः" ३।४।९९ इति विशेषणार्थः। उकारः "लुङलङलृङक्ष्वडुदात्तः"६।४।७१ इति विशेषणार्थः। भूतसामान्ये चायं लुङ वेदितव्यः; भूतविशेषणेऽनद्यतन्यां लङलिटोर्विधानात्। "अकार्षीत्" इति। "सिचि वृद्धिः परस्मैपदेषु" ७।२।१ इति वृद्धिः; पूर्ववदीट्। "वसतेः" इत्यादि। "वस निवासे" (धा।पा।१००५) इत्यस्मादनद्यतने लङि प्राप्ते लुङ वक्तव्यः। दिवसः सकलोऽतिक्रान्ताया रात्रेश्चतुर्थो याम आगामिन्याश्च प्रथमो यामः-- इत्येषोऽनद्यतनः कालः। तत्र रात्रिविशेषेऽतिक्रान्ताया रात्रेश्चतुर्थे यामे प्रत्युत्थितः क्व भवानुषितः? इति केनचित् पृष्टः कश्चित्, स तस्मिन् रात्रविशेषे दिवा वा प्रतिवचनं प्रयच्छन् लुङं प्रयुङ्क्ते-- "अहमत्रावात्सम्" इति। स च न प्राप्नोति; यस्मादसौ ततो रात्रिशेषात् पूर्वभागं प्रहरत्रयलक्षमधिशयितः, सोऽस्यानद्यतनकालः, ततश्चानद्यतने लङ स्यात्; तसमाल्लुङ् वक्तव्यः = व्याख्येयः। व्याख्यानं त्विहापि बहुलग्रहणमाश्रित्य कत्र्तव्यम्। "जागरणसन्ततौ" इति। यद्यसौ रात्रिशेषं सकलं सन्तत्याऽविच्छेदेन जागरितवानेवं लुङ् भवति। मुहूत्र्तमपि यद्यस्मिन् रात्रिविशेषे शयितवांस्ततो लङेव-- आहमत्रावसमिति। "अवात्सम्" इति। लुङ्, मिप्, "तस्थस्थ" ३।४।१०१ इत्यादिनाम्भावः, "वदव्रज" ७।२।३ इत्यादिना वृद्धिः; "सः स्यार्धधातुके"७।४।४९ इति सकारस्य तत्वम्॥
बाल-मनोरमा
लुङ् ६६, ३।२।११०

लुङ्। धातोरिति भूत इति चाधिकृतम्। तदाह-- भूतार्थवृत्तेरिति।