पूर्वम्: ३।४।९८
अनन्तरम्: ३।४।१००
 
सूत्रम्
नित्यं ङितः॥ ३।४।९९
काशिका-वृत्तिः
नित्यं डितः ३।४।९९

लेतः इति निवृत्तम्। ङितो लकारस्य य उत्तमः, तस्य नित्यं सकारस्य लोपो भवति। उपचाव, उपचाम। नित्यग्रहणं विकल्पनिवृत्त्यर्थम्।
लघु-सिद्धान्त-कौमुदी
नित्यं ङितः ४२३, ३।४।९९

सकारान्तस्य ङिदुत्तमस्य नित्यं लोपः। अलोऽन्त्यस्येति सलोपः। भवाव। भवाम।
न्यासः
नित्यं ङितः। , ३।४।९९

"अपचावापचाम" इति। लङ, "अतो दीर्घो यञि" ७।३।१०१ इति दीर्घः॥ "अपचात्" इति। लङ। "अपाक्षीत्" इति। लुङ "वदव्रज" ७।२।३ इत्यादिना वृद्धिः, "अस्तिसिचोऽपृक्ते" ७।३।९६ इतीट्॥
बाल-मनोरमा
नित्यं ङितः ४९, ३।४।९९

नित्यं ङितः। उत्तमपुरुष एवास्य सूत्रस्य प्रयोजनम्, प्रसङ्गादिहोपन्यस्तम्। "स उत्तमस्ये"ति सूत्रमनुवर्तते। तत्र "स" इति षष्ठ()न्तम्। तेन उत्तमो विशेष्यते। तदन्तविधिः। "इतश्च लोप" इत्यतो "लोप" इत्यनुवर्तते। तदाह--सकारान्तस्य ङिदुत्तमस्येति। ङितो लकारस्य य आदेशः--उत्तमपुरुषस्तस्येत्यर्थः। "वैतोऽन्यत्रे"त्यस्माद्वाग्रहणानुवृत्तिनिवृत्तये नित्यग्रहणम्। अलोऽन्त्यस्येत्यन्त्यलोपः। भवतामिति। लोटस्तस्। तस्य तामादेशः। शप्। गुणाऽवादेशौ। न च तामादेशस्य सर्वादेशत्वात्प्राग्विभक्तित्वाऽभावा"न्न विभक्तौ तुस्मा" इति निषेधाऽभावान्मकारस्येत्संज्ञा शङ्क्या। संयोगान्तलोपेन मकारान्तप्रश्लेषेण उपदेशेऽन्त्यत्वाऽभावात्। भवन्त्विति। लोटो रेझन्तादेशे शिपि गुणेऽवादेशे द्वयोरकारयोः पररूपे एरुरितीकारस्य उकारे भवन्त्विति रूपम्। अथ लोटः सिपि शपि गुणाऽवादेशयोः भव सि इति स्थिते--।

तत्त्व-बोधिनी
नित्यं ङितः ३८, ३।४।९९

सकारान्तस्येति। "ङिल्लकारोत्तमसकारस्ये"ति प्राचो व्याख्यानं त्वयुक्तं, भूयासमित्यादावतिप्रसङ्गः स्यादिति भावः। ङिदुत्तमस्येति। ङिल्लकारोत्तमस्येत्यर्थः। तेन भवाव भवामेत्यादौ नातिप्रसङ्गः॥