पूर्वम्: ३।२।११३
अनन्तरम्: ३।२।११५
 
सूत्रम्
विभाषा साकाङ्क्षे॥ ३।२।११४
काशिका-वृत्तिः
विभाषा साकाङ्क्षे ३।२।११४

यदि इति न अनुवर्तते। उभयत्र विभाशेयम्। अभिज्ञावचने उपपदे यच्छब्दसहिते केवले च विभाषा लृट् प्रत्ययो भवति, साकाङ्क्षश्चेत् प्रयोक्ता। लक्ष्यलक्षणयोः सम्बन्धे प्रयोक्तुराकाङ्क्षा भवति। अभिजानसि देवदत्त कश्मीरेषु वत्स्यामस् तत्र उदनं भोक्ष्यामहे। अभिजानासि देवदत्त मगधेषु वत्स्यामः, तत्र उदनं भोक्ष्यामहे। यदि खल्वपि अभिजानासि देवदत्त यत् कश्मीरेषु वत्स्यामः, यत् तत्र उदनं भोक्ष्यामहे। अभिजानसि देवदत्त यत् कश्मीरेष्ववसाम, यत् तत्र उदनम् अभुञ्ज्महि। वासो लक्षणं, भोजनं लक्ष्यम्।
न्यासः
विभाषा साकाङ्क्षे। , ३।२।११४

"उभयत्रविभाषेयम्" इति। प्राप्ते चाप्राप्ते च। असति हि यच्छब्दे " अभिज्ञावचने लुट्" ३।२।११२ इति प्राप्ते, सति यच्छब्दे "न यदि" ३।२।११३ इति प्रतिषेधादप्राप्ते। आकाङ्क्षणम् = आकाङ्क्षा,आकाङ्क्षया सह वत्र्तते साकाङ्क्षः। आकाङ्क्षा च सम्बन्धज्ञानमुच्यते, तच्चेतनावतो धर्मः, तस्मात् साकाङ्क्ष इति प्रयोक्तुर्विशेषणं विज्ञायत इत्याह-- "साकाङ्क्षश्चेत् प्रयोक्ता"इति। अस्यैवार्थ स्पष्टीकर्त्तुमाह--"साकाङ्क्षश्चेत प्रयोक्ता" इति। अस्यैवार्थ स्पष्टीकर्त्तुमाह-- "लक्ष्यलक्षणयोः" इत्यादि। तत्र यदि ह्रेतदपेक्ष्यत एतदुक्तं भवति-- लक्ष्यलक्षणयोर्यः सम्बन्धस्तद्विषयज्ञानं यदि प्रयोक्तुरुपपन्नं भवति। यदि प्रयोक्ता लक्ष्यलक्षणयोः सम्बन्धमपेक्षत इति यावत्। "भोक्ष्यामहे" इति। भुजः पूर्ववदात्मनेपदम्, स्यप्रत्ययश्च, टेरेत्वम्, "चोः कुः" ८।२।३० इति कुत्वम्-- जकारस्य गकारः, "खरि च" ८।४।५४ इति चत्र्वम्-- ककारः, सकारस्य षत्वम्। किं पुनर्लक्ष्यं लक्षणञ्च, ययोः सम्बन्धे प्रयोक्तुराकाङ्क्षेत्याह-- "वासो लक्षणम्िति। परिज्ञातत्वाल्लक्षणम्, तेन हि जनो लक्ष्यते। "भोजनं तु लक्ष्यम्" इति। अपरिज्ञातत्वात्; न तु लक्षणम्। परिज्ञातं लक्षणमिति भवति, यथा-- अग्नेर्धुम इति॥
बाल-मनोरमा
विभाषा साकाङ्क्षे ५९९, ३।२।११४

विभाषा। उक्तविषये इति। अभिज्ञाबोधिन्युपपदे इत्यर्थः। लक्ष्यलक्षणभावेनेति। ज्ञाप्यज्ञाप्यकभावेनेत्यर्थः। अत्र व्याख्यानमेव शरणम्। स्मरसीति। पूर्वं वने अवसाम, तत्र वने गा अचारयामेति यत्तत् हे कृष्ण ! स्मरसीत्यर्थः। अत्र यदित्यस्य गम्यत्वेऽपि तस्य प्रयोगाऽभावान्न यद्योगः। वासो लक्षणमिति। "चारणस्ये"ति शेष-। उभयत्रापि लृड्विकल्पः, अभिज्ञावचनयोगस्य अविशिष्टत्वादिति भावः। न च यद्योग एव "विभाषा साङ्काक्षे" इति विकल्पोऽस्त्विति भ्रमितव्यं, "यदि च अयदि चाऽयं विकल्प" इति भाष्यात्तदाह-- यच्छब्दयोगेऽपीति। "परोक्षे लि"डिति प्राग्व्याख्यातमपि विशेषविवक्षया स्मार्यते। अहमर्थस्य प्रत्यक्षत्वात् परोक्षत्वाऽभावात्कथमस्य लिट उत्तमपुरुष इत्यत आह-- उत्तमपुरुषे चित्तेति। सुप्त इति। सुप्तत्वादहं विललापेत्यर्थः। अत्र स्वापाच्चित्तविक्षेपः। बहु जगदेति। मत्तत्वात्तस्य पुरस्तादहं बहु जगदेत्यर्थः। अत्र उन्मादाच्चित्तविक्षेपः। आदिना व्यासङ्गसङ्ग्रहः। अत्यन्तापह्नवे इति। अपरोक्षार्थमिदम्। कलिङ्गेष्ववात्सीरिति। अतस्त्वं न सहवासयोग्य इति प्रश्नः। "अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च। तीर्थयात्रां विना यातः पुनः संस्कारमर्हति।" इति वचनादिति भावः। नाहं कलिङ्गान् जगामेत्युत्तरम्। कलिङ्गशब्दस्य जनपदविसेषवाचित्वाद्बहुवचम्। अत्र तद्देशगमनोत्तरकालिकववासविषयकप्रश्ने कारणीभूतगमनस्यैवापलापादत्यन्तापह्नवो ज्ञेयः। कलिङ्गेष्ववात्सीरित्यत्र "अकर्मकधातुभिर्योगे देशः कालो भावः" इति कर्मसंज्ञायाः पाक्षिकत्वान्न द्वितीयेति कारकाधिकारे निरूपितम्।

तत्त्व-बोधिनी
विभाषा साकाङ्क्षे ४९३, ३।२।११४

वासो लक्षणमिति। प्रसिद्धत्वाज्ज्ञापकमित्यर्थः।चारणं लक्ष्यमिति। सहसा बुद्ध्यनारोहाज्रज्ञाप्यम्। पक्षे लङिति। वने अवसाम, गा अचारयाम। यच्छब्दयोगेऽपीति। अतएव "न यदी"ति योगात्पूर्वं "विभाषा साकाङ्क्षे" इतिन कृतमिति भावः।

*अत्यन्तापह्नवे लिड्वक्तव्यः। अत्यन्तापह्नव इति। अपह्नवोऽपलापस्तत्र आत्यन्तिकत्वं नामैवं यदभियुक्तस्तद्धेतोरप्यपह्नुतिः। नाहमित्यादि। कलिङ्गो नाम निषिद्धो देशः, "अङ्गवङ्गकलिङ्गेषु सौराष्ट्रमगधेषु च। तीर्थयात्रां विना गत्वा पुनः संस्कारमर्हति" इति स्मरणात्, तस्मिन्देशे त्वया गत्वा चिरं स्थितमिति केनचित्कश्चिदुक्तः सन्नाह--"नाहं कलिङ्गाञ्जगामे"ति। नकेवलमवस्थानमेव निषिध्यते किं तर्हि तद्धेतुभूतं गमनमपीति भवत्यत्यन्ताऽपह्नवः। यदा तु कलिङगेष्वगम इत्युक्तः सन्गमनमेवापलपति न तदात्यन्तापह्न इति लङेव भवति, "न कलिङ्गेष्वगच्छ" मिति।