पूर्वम्: ३।२।११८
अनन्तरम्: ३।२।१२०
 
सूत्रम्
अपरोक्षे च॥ ३।२।११९
काशिका-वृत्तिः
अपरोक्षे च ३।२।११९

अपरोक्षे च भूतानद्यतने ऽर्थे वर्तमानाद् धातोः स्मे उपपदे लट् प्रत्ययओ भवति। एवं स्म पिता ब्रवीति। इति स्मौपाद्यायः कथयति।
न्यासः
अपरोक्षे च। , ३।२।११९

"ब्रावीति" इति। "ब्राउव ईट्" ७।३।९३। "कथयति" इति। "कथ वाक्यप्रबन्धे" (धा।पा।१८५१), चुरादावदन्तः, तस्माण्णिच्, "अतो लोपः" ६।४।४८ , "अचः परस्मिन् पूर्वविधौ" १।१।५६ इति स्थानिवद्भावात् "अत उपधायाः" ७।२।११६ इति वृद्धिर्न भवति। अथ किमर्थं पुनरिदमारब्धम्? पूर्वेण परोक्षे विधानादपरोक्षे न प्राप्नोति, अतस्तत्रापि यथा स्यादित्येवमर्थम्। ननु च पूर्वयोगे परोक्षग्रहणं निवर्तिष्यते, तस्मिन् निवृत्ते पूर्वेणैव परोक्षे चापरोक्षे च भविष्यति? सत्यमेतत्; चोद्यमपि कश्चिद्विजानीयाद्यदि परोक्षग्रहणं निवृत्तं तत्सम्बद्धमनद्यतनग्रहणमपि निवृत्तमिति, तदन्यथा मा विज्ञायीति पूर्वसूत्रे परोक्षग्रहणमनुवत्र्तते, त()स्मश्चानुवत्र्तमाने कत्र्तव्यमेतत्, अन्यथा ह्रपरोक्षे न स्यात्॥
बाल-मनोरमा
अपरोक्षे च ६०३, ३।२।११९

अपरोक्षे च। एवं स्मेति। पिता एवमुक्तवानित्यर्थः।