पूर्वम्: ३।२।११९
अनन्तरम्: ३।२।१२१
 
सूत्रम्
ननौ पृष्टप्रतिवचने॥ ३।२।१२०
काशिका-वृत्तिः
ननौ पृष्टप्रतिवचने ३।२।१२०

अनद्यतने परोक्षे इति निवृत्तम्। भूतसामान्ये विधिरयम्। ननुशब्दे उपपदे प्रश्नपूर्वके प्रतिवचने भूते ऽर्थे लट् प्रययो भवति। लुङो ऽपवादः। अकार्षीः कटं देवदत्त? ननु करोमि भोः। अवोचस् तत्र किंचिद् देवदत्त? ननु ब्रवीमि भोः। पृष्टप्रतिवचने इति किम्? ननु अकार्षीत् माणवकः।
न्यासः
ननौ पृष्टप्रतिवचने। , ३।२।१२०

"पृष्टप्रतिवचने" इति। प्रश्नः = पृष्टम्, भावे निष्ठा। पृष्टपूर्वकप्रतिवचनं पृष्टप्रतिवचनम्, शाकपार्थिवादित्वन्मध्यमपदलोपी समासः। "अनद्यतने परोक्ष इति निवृत्तम्" इति। अस्वरितत्वात्। "अकार्षीः कटं देवदत्त" इत्येष प्रश्नः। "ननु करोमि भोः"इत्येतत् प्रश्नपूर्वकं प्रतिवचनम्। "अवोचस्तत्र किञ्चिद्देवदत्त"इत्येष प्रश्नः। "ननु करोमि भोः"इत्येतत् प्रश्नपूर्वकं प्रतिवचनम्। "नन्वकार्षीत्" इति। प्रश्नपूर्वकं प्रतिवचनं न भवतीति लुङेव भवति। ननु च प्रतिवचनं सर्वं प्रश्नपूर्वकमेवु, तदनर्थकं पृष्टग्रहणम्, व्यवच्छेद्याभावात्? नैतदिष्टम् ;प्रतिवचनशब्दोऽयमस्त्येव पृष्टान्वाख्याने-- यः प्रश्नमन्तरेण न भवति; अस्त्यव्ययीभावे-- वचनं वचनं प्रतिवचनम्, यथार्थे "अव्ययम्" २।१।६ इति वीप्सायामव्ययीभावः;अस्ति समाधिवचनः-- प्रतिपूर्वस्य वचेः समाधाविति दर्शनात्, तथा हि वक्तारो वदन्ति-- यदननाभिहितं तन्मया प्रयुक्तमिति, परिष्कृतमित्यर्थः; तदेवमनेकार्थे प्रतिवचनशब्द-, यदि पृष्टग्रहणं न क्रियते सर्वेष्वर्थेषु स्यात्। अ()स्मस्तु क्रियमाणे प्रश्नपूर्वो यः प्रतिवचनशब्दः, स एव गृह्रते, नान्य इति न भव्तयानर्थक्यम्॥ "नाकर्षम्िति। पूर्ववदम्भावः॥
बाल-मनोरमा
ननौ पृष्टप्रतिवचने ६०४, ३।२।१२०

ननौ पृष्ट। निवृत्तमिति। व्याख्यानादिति भावः। अकार्षीः किमिति प्रश्नः। ननु करोमीत्युत्तरम्। अकार्षमित्यर्थः। नन्विति संबोधने।

तत्त्व-बोधिनी
ननौ पृष्टप्रतिवचने ४९६, ३।२।१२०

ननौ। पृष्टस्यप्रतिवचनमिति विग्रहः। समाहारद्वन्द्वे तूभयत्र स्यात्िष्यते च प्रतिवचने एव लट्। तदाह-- ननु करोमीति। न च पृष्टग्रहणं व्यर्थं यावता प्रश्नपूर्वकमेव प्रतिवचनं भवतीति वाच्यम्, विरुद्धमपि वचनं प्रतिवचनं , चवनाभिमुख्यमपि प्रतिवचनमिति पृष्टग्रहणं कर्तव्यमिति कैयटे स्थितत्वात्।