पूर्वम्: ३।२।१२
अनन्तरम्: ३।२।१४
 
सूत्रम्
स्तम्बकर्णयोः रमिजपोः॥ ३।२।१३
काशिका-वृत्तिः
स्तम्बकर्णयो रमिजपोः ३।२।१३

स्तम्ब कर्ण इत्येतयोः सुबन्तयोरुपपदयोर् यथासङ्ख्यं रमिजपोः धात्वोः अच्प्रत्ययो भवति। रमेः अकर्मकत्वात्, जपेः शब्दकर्मकत्वात् कर्म न सम्भवति इति सुपि इत्येतदिह अभिसम्बध्यते। हस्तिसूचकयोरिति वक्तव्यम्। स्तम्बे रमते इति स्तम्बेरमः हर्ती। कर्णे जपति इति कर्णेजपः सूचकः। हस्तिसूचकयोः इति किम्? स्तम्बे रन्ता। कर्णे जपिता मशकः।
न्यासः
स्तम्बकर्णयो रमिजपोः। , ३।२।१३

"जपेः शब्दकर्मकत्वात्" इति गायत्रीं जपति;अनुवाकं जपतीत्यत्र शब्दकर्मकस्यैव प्रयोगदर्शनात्। "कर्मं न सम्भवति" इति। कर्णस्याशब्दात्मकत्वादित्यभिप्रायः।इतिकरणो हेतौ। यत एव कर्णशब्दः कर्म न सम्भवति तेन सुपीत्येतदिह सम्बध्यते,न कर्मणीति। "हस्तिसूचकयोः" इत्यादि। हस्तिसूचकग्रहणं प्रत्ययार्थस्यैव कर्त्तुर्विशेषणम्। "स्तम्बकर्णयो रमिजपोः" इति योऽयमज्विधिः स हस्तिसूचकयोः कत्र्रोर्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं तु-- तस्यैव विभाषाग्रहणानुवृत्तस्य व्यवस्थितविभाषात्वमाश्रित्य कत्र्तव्यम्। "स्तम्बेरमः कर्णेजपः" इति। "तत्पुरुषे कृति बहुलम्" ६।३।१३ इति सप्तम्या अलुक्। "सूचकः"इति। पिशुनक इत्यर्थः॥
बाल-मनोरमा
स्तम्बकर्णयो रमिजपोः ७४२, ३।२।१३

स्तम्बकर्णयोः। रम जप अनयोरकर्मकत्वात्कर्मणीति न संबध्यते। जपेः शब्दोच्चारणार्तकस्य धात्वर्थोपसङ्ग्रहादकर्मकत्वं बोध्यम्। दर्भादितृणनिचयः - स्तम्बः। सूचकः - पिशुनिः। हस्तिसूचकयोः किम्?। स्तम्बे रन्ता गौः कर्णे जपिता गुरुः, मशको वा।

तत्त्व-बोधिनी
स्तम्बकर्णयो रमिजपोः ६१९, ३।२।१३

* हस्तिसूचकयोरिति वक्तव्यम्। हस्तसूचकयोरिति। अन्यत्र तु स्तम्बे रन्ता। कर्णे जपिता।