पूर्वम्: ३।२।१३
अनन्तरम्: ३।२।१५
 
सूत्रम्
शमि धातोः संज्ञायाम्॥ ३।२।१४
काशिका-वृत्तिः
शमि धातोः संज्ञायाम् ३।२।१४

शम्युपपदे धातुमात्रात् संज्ञायां विषये अच्प्रत्ययओ भवति। शङ्करः। शंभवः। शंवदः। धातुग्रहणं किं यावता धातोः इति वर्तत एव? शमिसंज्ञायाम् इति सिद्धे धातुग्रहणं कृञो हेत्वादिषु टप्रतिषेधार्थम्। शङ्करा नाम परिव्राजिका। शङ्करा नाम शकुनिका। तच्छीला च।
न्यासः
शमि धातोः संज्ञायाम्। , ३।२।१४

"धातुमात्रात्" इति। धातुमात्रग्रहणेनापवादविषयेऽपि विधानं दर्शयति। एवं हि धातुमात्राद्भवति, यद्यप्यपवादं बाधित्वा तद्विषयेऽपि भवति। एष चार्थो धातुग्रहणाल्लभ्यते। "शमि संज्ञायाम्" इत्यादिना धातुग्रहणस्य प्रयोजनं दर्शयनम्, धातुप्रतिपादितमर्थं स्पष्टीकरोति-- "शमि संज्ञायाम्" इति। सूत्रोपलक्षणमेतत्। "शमि धातोः संज्ञायाम्" इत्यस्मिन् सूत्र इत्यर्थः। "हेत्वादिषु" इति। आदिशब्देन ताच्छील्यानुलोम्ययोग्र्रहमम्। शम्युपपदे करोतेः संज्ञायां हेत्वादिषु विवक्षितेषु "कृञो हेतुताच्छील्यानुलोम्येषु" ३।२।२० इति टः प्राप्नोति, अतस्तद्वाधनार्थं धातुग्रहणम्। शमि धातोरित्य्सयावकाशः करोतेरन्यो धातुः शम्युपपदः सम्भवति-- शंवद इति, "कृञो हेतुताच्छील्यानुलोम्ये" ३।२।२० इत्यस्यावकाशः करोतिः शब्दान्तरोपपदः-- श्राद्धं करोतीति श्राद्धकर इति; करोतेः शम्युपपदे संज्ञायायमुभयमेव प्राप्नोति--शङ्करा नाम शकुनिकेति। सा हि तच्छीला, तत्संज्ञा च, तत्र परत्वाट्टः प्राप्नोति, पुनर्धातुग्रहणाद्धातु मात्राद्विधीयमानं टं बाधित्वाऽजेव भवति॥
बाल-मनोरमा
शमि धातोः संज्ञायाम् ७४३, ३।२।१४

शिमि दातोः। "शमी"ति सप्तम्यन्तम्। "श" मिति सुखार्थकमव्ययम्। तस्मिन्नुपपदे दातोरच् स्यात्संज्ञायाम्। ननु धातुग्रहणं व्यर्थम्, न च रमिजपोरननुवृत्त्यर्थं तदिति वाच्यम्, अस्वरितत्वादेव तदननुवृत्तिसिद्धेरित्यत आह-- पुनर्धातुग्रहणमिति। "कृञो हेतुताच्छील्यानुलोम्येषु" इति टप्रत्ययोऽच्प्रत्ययबाधको वक्ष्यते, तद्बाधनार्थमित्यर्थः।

तत्त्व-बोधिनी
शमि धातोः संज्ञायाम् ६२०, ३।२।१४

शमि धातोः। शमि उपपदे धातुमात्रात्संज्ञायामच् स्यात्। पुनर्धातुग्रहणमिति। असति धातुग्रहणे "शमि संज्ञाया"मित्यस्यावकाशः, --संभवः। शंवदः। "कृञो हेतुताच्छील्ये"त्यस्यावकाशः--"श्राद्धकरः"। "शङ्कर" इत्यत्रोभयप्रसङ्गे परत्वाट्ट एव स्यात्। धातुग्रहणे कृते तु तत्सामथ्र्यादजेव भवति। तदाह--शङ्करा नामेत्यादि। अनधिकरणार्थमुपसङ्ख्यानमिति दर्शयति--