पूर्वम्: ३।२।१३०
अनन्तरम्: ३।२।१३२
 
सूत्रम्
द्विषोऽमित्रे॥ ३।२।१३१
काशिका-वृत्तिः
द्विषो ऽमित्रे ३।२।१३१

अमित्रः शत्रुः। अमित्रे कर्तरि द्विषेर् धातोः शतृप्रत्ययो भवति। द्विषन्, द्विषन्तौ, द्विषन्तः। अमित्रे इति किम्? द्वेष्टि भार्या पतिम्।
न्यासः
द्विषोऽमित्रे। , ३।२।१३१

"अमित्रः शत्रुः" इति। शत्रादेवामित्रशब्दस्य रूढत्वात्। "द्वेष्टि" इति। अदादित्वाच्छपो लुक्॥
बाल-मनोरमा
द्विषोऽमित्रे ९१३, ३।२।१३१

द्विषोऽमित्रे। द्विषः शतृप्रत्ययः स्यादमित्रे कर्तरीत्यर्थः।