पूर्वम्: ३।२।१३१
अनन्तरम्: ३।२।१३३
 
सूत्रम्
सुञो यज्ञसंयोगे॥ ३।२।१३२
काशिका-वृत्तिः
सुञो यज्ञसंयोगे ३।२।१३२

यज्ञेन संयोगः यज्ञसंयोगः। यज्ञसंयुक्ते ऽभिषवे वर्तमानात् सुनोतेर् धातोः शतृप्रत्ययो भवति। सर्वे सुन्वन्तः। सर्वे यजमानाः सत्रिण उच्यन्ते। संयोगग्रहणं प्रधानकर्तृप्रतिपत्त्यर्थम्। याजकेसु मा भूत्। यज्ञसंयोगे इति किम्? सुनोति सुराम्।
न्यासः
सुञो यज्ञसंयोगे। , ३।२।१३२

"यज्ञसंयोगः" इति। कर्मसाधनः संयोगशब्दः। अत एव वृत्तावाह-- "यज्ञसंयुक्तेऽभिषवे" इति। संयुक्तः = सम्बद्धः, यज्ञेन संयुक्तो यज्ञसंयुक्तः। कदा चाभिषवो यज्ञसंयुक्तो भवति? यदा यज्ञाङ्गं भवति। "सुन्वन्तः" इत्यादि। "स्वादिभ्यः श्नुः" ३।१।७३। "सर्वे यजमानाः" इति। सुन्वन्त इत्यनेन यजमानाः सत्त्रिणो यज्ञस्य ये स्वामिनस्तेऽभिधीयन्ते, न तु याज्ञिका इति दर्शयति। कथं पुनरेषोऽर्थो लभ्यते, यावता यथाभिषवस्य यजमानाः, कत्र्तारस्तथा याजका अपीत्याह-- "संयोगग्रहणम्" इत्यादि। इह "सुञोयज्ञे" इत्येतद्वेदितव्यम्, एवमपि ह्रुच्यमाने यज्ञसंयुक्तताभिषवस्य लभ्यत एव; यज्ञविषयश्चैष सुनोत्यर्थो भवतीत्यर्थस्य प्रतिपत्तेः, तस्मात् संयोगग्रहणमिति न कत्र्तव्यमेतत्? क्रियते प्रधानकर्त्तृप्रतिपत्त्यर्थम्। यागस्य ये कत्र्तारो भूत्वा फलं प्राप्नुवन्तः सुन्वन्तस्ते प्रधानकत्र्तारः, ते पुनर्यजमानाः,न याजकाः॥
बाल-मनोरमा
सुञो यज्ञसंयोगे ९१४, ३।२।१३२

सुञो यज्ञ। यज्ञसंयुक्तेऽभिषवे वर्तमानात् सुनोतेः शतृप्रत्यय इत्यर्थः। संयोगग्रहणं यज्ञस्वामिपरिग्रहार्थम्। तेन याजकेषु न भवति। तत्र सुन्वन्नित्येकवचनान्तं दशपूर्णमासज्योतिष्टोमादिविषयम्, एककर्तृकत्वात्। बहुवचनान्तं तु सत्रविषयमेव, तत्र ऋत्विजामपि यजमानत्वादिति मत्वा आह-- सर्वे सुन्वन्त इति।

तत्त्व-बोधिनी
सुञो यज्ञसंयोगे ७५०, ३।२।१३२

सुञो यज्ञसंयोगे। सुनोतेः शतृप्रत्ययः स्याद्यज्ञेन संयुज्यमाने वृत्तिश्चेत्। नन्विह "सुञो यज्ञे" इत्येवास्तु, यज्ञविषयकश्चेत्सुनोत्यर्थ इति व्याख्यायां सुरां सुनोतीत्यादेव्र्यावर्तयितुं शक्यत्वात्। अत्राहुः-- संयोगग्रहणं प्रधानकर्तृसंप्रत्ययार्थं,तेन यजानादन्यत्र न भवतीति। एवं चाऽप्रधाने कर्तरि "लटः शतृशानचौ" इत्यनेनाऽपि न भवति, संयोगग्रहणसामथ्र्यादिति हरदत्तः। "यः सुन्वन्तमवती"त्यादीनामेकवचनान्तानां यजमानपरत्वसंभवेऽपि बहुवचनान्तानां तु न संभवति, एकस्मिन्यागे एकस्यैव यजमानत्वादित्याशङ्क्य यागविशेषे तु संभवतीति दर्शयितुमुदाहरति--सर्वे सुन्वन्त इत्यादि। सत्रयागे हि बहवो यजमानास्त एवं ऋत्विजां कर्म सोमाभिषवनं कुर्वन्तीति "सुन्वन्त" इत्यादिबहुवचनान्तस्यापि यजगानपरत्वं संभवतीति भावः।