पूर्वम्: ३।२।१३२
अनन्तरम्: ३।२।१३४
 
सूत्रम्
अर्हः पूजायाम्॥ ३।२।१३३
काशिका-वृत्तिः
अर्हः प्रशंसायाम् ३।२।१३३

प्रशंसा स्तुतिः। अर्हतेर् धातोः प्रशंसायां शतृप्रत्ययो भवति। अर्हन्निह भवान् विद्याम्। अर्हन्निह भवान् पूजाम्। प्रशंसायाम् इति किम्? अर्हति चौरो वधम्।
न्यासः
अर्हः प्रशंसायाम्। , ३।२।१३३

बाल-मनोरमा
अर्हः प्रशंसायाम् ९१५, ३।२।१३३

अर्हः प्रशंसायाम्। अर्ह इति पञ्चमी। "शतृप्रत्यय" इति शेषः। अर्हन्निति। पूजां प्राप्तुं योग्य इत्यर्थः। अत्र प्रशस्तस्यैव पूजायोग्यत्वात्प्रशंसा गम्यते।

तत्त्व-बोधिनी
अर्हः प्रंशायाम् ७५१, ३।२।१३३

अर्हः। प्रशंसायां किम्?। अर्हति चौरो वधम्।