पूर्वम्: ३।२।१३९
अनन्तरम्: ३।२।१४१
 
सूत्रम्
त्रसिगृधिधृषिक्षिपेः क्नुः॥ ३।२।१४०
काशिका-वृत्तिः
त्रसिगृधिधृषिक्षिपेः क्नुः ३।२।१४०

त्रसादिभ्यो धतुभ्यः तच्छीलादिषु क्नुः प्रत्ययो भवति। त्रस्नुः। गृध्नुः। धृष्णुः। क्षिप्नुः।
न्यासः
त्रसिगृधिधषिक्षिपेः क्नुः। , ३।२।१४०

"त्रस {धारणे-- धा।पा।} उद्वेगे" (धा।पा।१७४१), "गृधु अभिकांक्षायाम्" (धा।पा।१२४६) , "ञिघृषा प्रगल्भ्ये" (धा।पा।१२६९), "क्षिप प्रेरणे" (धा।पा।१२८५)। "त्रस्नुः" इति। "नेड्()वशिकृति"(७।२।८) इतीट्? प्रतिषेधथः। "गृघ्नुः "इति। "क्ङिति च" १।१।५ इति गुणाभावः॥
बाल-मनोरमा
त्रसिगृधिधृषिक्षिपेः क्नुः ९२२, ३।२।१४०

त्रसिगृधि। "तच्छीलादिषु कर्तृष्वि"ति शेषः। त्रस्नुरिति। "नेड्वशी"ति नेट्। गृध्नुः धृष्णुरित्यत्र कित्त्वान्न गुणः।

तत्त्व-बोधिनी
त्रसिगृधिधृषिक्षिपेः क्नुः ७५७, ३।२।१४०

त्रस्नुरिति। "नेड्वशि" इति नेट्।