सूत्रम्
शमित्यष्टाभ्यो घिनुण्॥ ३।२।१४१
काशिका-वृत्तिः
शमित्यष्टाभ्यो घिनुण् ३।२।१४१
इति शब्दः आद्यर्थः। शमादिभ्यो धातुभ्यो ऽष्टाभ्यः तच्छीलादिषु कर्तृषु घिनुण् प्रत्ययो भवति। शम उपशमे इत्यतः प्रभृति मदी हर्षे इत्येवम् अन्तः शमादिर् दिवाद्यन्तर्गणः। घकार उत्तरत्र कुत्वार्थः। उकार उच्चारणार्थः। णकारो वृद्ध्यर्थः। शमी। तमी। दमी। श्रमी। भ्रमी। क्लमी। प्रमादी। उन्मादी। अष्टाभ्यः इति किम्? असिता।
न्यासः
शमित्यष्टाभ्यो घिनुण्। , ३।२।१४१
"शमु उपशमे" (धा।पा।१२०१), "तमु काङ्क्षायाम्"(धा।पा।१२०२), "दमु {उपशमे-धा।पा।} उपरमे" (धा।पा।१२०३), "श्रमु तपसि खेदे च" (धा।पा।१२०४), "भ्रमु अनवस्थाने" (धा।पा।१२०५), "क्षमु सहने" (धा।पा।१२०६), "क्लमु ग्लानौ" (धा।पा।१२०७), "मदी हर्षे"(धा।पा।१२०८)। "उत्तरत्र कुत्वार्थः" इति। सम्पर्कीत्यादौ "चजोः कु घिण्यतोः"
७।३।५२ इति यथा स्यात्। "उकार उच्चारणार्थः" इति। अनुबन्धत्वमस्य निरस्यति। अनुबन्धत्वे सति शमिनौ शमिन इति "उगिदचाम्"
७।१।७० इति नुम् प्रसज्येत। इह शमिनितराम्, शमिनितमामिति "नद्याः शेषस्यान्यतरस्याम्"
६।३।४३ इति वत्र्तमाने "उगितश्च"
६।३।४४ इत्यन्यतरस्यां ह्यस्वत्वं स्यात्, अन्यथा ह्रस्यानुबन्धकरणमनर्थकं स्यात्। तस्मदुच्चारणार्थ एवोकारो भवति। ह्यस्वत्वञ्च "घरूपकल्पचेलड्()ब्राउवगोत्रमतहतेषु"
६।३।४२ इत्यनेन नित्यं भवति।
"शमी" इति। "अत उपधाया-"
७।२।११६ इति वृद्धिर्न भवति, "नोदात्तोपदेश"
७।३।३४ इत्यादिना प्रतिषिद्धत्वात्। "सौ च"
६।४।१३ इति दीर्घः।
"असिता"इति। "असु क्षेपणे" (धा।पा।१२०९) तृनि भवति॥
बाल-मनोरमा
शमिष्टाभ्योघिनुण् ९२३, ३।२।१४१
शमित्यष्टाभ्यः। इति शब्द आदिपर्यायः। शमादयो दिवादौ स्थिताः। तेभ्योऽष्टाभ्यो घिनुण् स्यात्तच्छीलादिष्वित्यर्थः। घित्त्वमुत्तरसूत्रार्थम्। "अकर्मकेभ्य एव घिनु"णिति भाष्यम्। शमिनितरा शमिनीतरेति। शमिन्शब्दात्स्त्रियां नान्तलक्षणङीबन्तात्तरबन्ताट्टाप्। ह्यस्वविकल्प इति। भाष्यमते उगित्त्वाद्ध्रस्वः। काशिकामते तु उगित्त्वाऽभावन्न ह्यस्वः। न च ह्यस्वाऽभावे "तसिलादिषु" इति पुंवत्त्वं शङ्क्यं, "संज्ञापूरण्योश्चे"ति निषेधात्। ननु भाष्यरीत्या उगित्त्वाभ्युपगमे शमी शमिनौ इत्यादौ "उगिदचा"मिति नुम् स्यादित्याशङ्क्य निराकरोति-- न चैवमपि। झल्ग्रहणमपकृष्येति। "नपुंसकस्य झलचः" इति उत्तरसूत्रादिति भावः। एतच्च प्रकृतसूत्रे, "युवोरनाकौ" इति सूत्रे च भाष्ये स्पष्टम्। शमादिभ्यो घिनुणि उपधावृद्धिमाशङ्क्याह-- नोदात्तेति। प्रमादीति। प्रमादीति। मान्तत्वाऽभावान्न वृद्धिनिषेधः। ननु उत्पूर्वान्मदेरुन्मादीति कथं घिनुण्, अलङ्कृञादिसूत्रे उत्पूर्वान्मदेर्विशिष्य इष्णुचो विधानादित्यताअह-- उत्पूर्वादित्यादिना। ननु कथमत्र ताच्छीलिके घिनुणि वाऽसरूपविधिप्रवृत्तिः, "ताच्छीलिकेषु वाऽसरूपविधिर्नास्ती"ति निषेधादित्यत आह-- ताच्छीलिकेष्विति। इयं परिभाषा "नन्दहिंसे"त्यादिवक्ष्यमाणसूत्रे ज्ञापितेति भाष्ये स्पष्टम्। प्रायिकमिति। एतच्च "सूददीपदीक्षश्चे"ति दीपग्रहणादिति "जुचङ्क्रम्यदन्द्रम्ये"ति सूत्रे भाष्ये स्पष्टम्।
तत्त्व-बोधिनी
शमिष्टाभ्योधिनुण् ७५८, ३।२।१४१
शमित्यष्टाभ्यो। इतिशब्द आद्यर्थः। शमिनीतरेत्यत्रेति। अत्र नव्याः-- विद्वत्तरेतिवत्तसिलादिष्विति पुंवद्भावेन शमितरेति भाव्यम्। न च उगित्त्वाभ्युपगमस्य फलाऽभावाद्ध्रस्विकल्प एव भवतीति वाच्यं, पाक्षिकह्यस्वेन उगित्करणस्य चरितार्थत्वात्। ह्यस्वाऽभावपक्षे तु पुंवद्भावस्य दुर्वारत्वादित्याहुः।