पूर्वम्: ३।२।१५५
अनन्तरम्: ३।२।१५७
 
सूत्रम्
प्रजोरिनिः॥ ३।२।१५६
काशिका-वृत्तिः
प्रजोरिनिः ३।२।१५६

प्रपूर्वाज् जवतेः तच्छीलादिषु कर्तृषु इनिः प्रत्ययो भवति। प्रजवी, प्रजविनौ।
न्यासः
प्रजोरिनिः। , ३।२।१५६

"जुचंक्रम्य" ३।२।१५० इत्यादिना युचि प्राप्त इनिर्विधीयते। इकारो नकारस्येत्संज्ञापरित्राणार्थः॥
बाल-मनोरमा
प्रजोरिनिः ९३८, ३।२।१५६

प्रजोरिनिः। जुः सौत्रो धातुः। प्रपूर्वादस्मादिनिप्रत्ययः स्यात्तच्छीलादिष्वित्यर्थः। नकारादिकार उच्चारणार्थः।

तत्त्व-बोधिनी
प्रजोरिनिः ७७१, ३।२।१५६

प्रजवीति। "जु" इति सौत्रो गत्यर्थः।