पूर्वम्: ३।२।१५६
अनन्तरम्: ३।२।१५८
 
सूत्रम्
जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च॥ ३।२।१५७
काशिका-वृत्तिः
जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश् च ३।२।१५७

जि जये। दृङादरे। क्षि क्षये, क्षि निवासगत्योः इति द्वयोरपि ग्रहणम्। प्रसू इति षू प्रेरणे इत्यसय् ग्रहणम्। जिप्रभृतिभ्यो धातुभ्यः इनिः प्रत्ययो भवति तच्छीलादिषु कर्तृषु। जयी। दरी। क्षयी। विश्रयी। अत्ययी। वमी। अव्यथी। अभ्यमी। परिभवी। प्रसवी।
न्यासः
जिदृक्षिश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च। , ३।२।१५७

"जि जये" (धा।पा।५६१), "दृङ आदरे" (धा।पा।१४११), "श्रिञ् सेवायाम्"(धा।पा।८९७) विपूर्वः, "इण् गतौ" (धा।पा।१०४५), "टुवम उद्गिरणे" (धा।पा।८४९), "व्यथ {भयसञ्चलनयोः-धा।पा।} भयचलनयोःर" (धा।पा।७६४) नञ्पूर्वः, "अम रोगे"(धा।पा।१७२०) अभिपूर्वः। "षू प्रेरणे" (धा।पा।१४०८) प्रपूर्व इत्यस्य ग्रहणम्, न "षूङ प्राणिगर्भविमोचने"(धा।पा।१०३१) "षूओङ प्राणिप्रसवे"(धा।पा।११३२) इत्येतयोः। निरनुबन्धकपरिभाषयेति (व्या।प।५३) भावः। इण्जिभ्यामित्यत्र "इण्नश्जिसर्त्तिभ्यः क्वरप्"३।२।१६३ इति वचनात् क्परप् भवति॥
बाल-मनोरमा
जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च ९३९, ३।२।१५७

जिदृक्षि। जि, दृ, क्षि, विश्रि, इण्(), वम, अव्यथ, अभ्यम, परिभू, प्रसू, एषां दशानं द्वन्द्वः। जि जये, जि अभिभवे, दृङ् आदरे, क्षि क्षये, क्षि निवासगत्योः, श्रिञ् सेवायां विपूर्वः। इण् गतौ। वमु उद्गिरणे। व्यथ भयसंचलनयोः-- नञ्पूर्वः। निपातनान्नञो धातुना समासे "न लोपो नञः" इति नकारलोपः। अमु गत्यादिषु- अभिपूर्वः। भू सत्तायाम्-- परिपूर्वः। षू प्रेरणे प्रपूर्वः। एभ्य इनिः स्यात्तच्छीलादिष्वित्यर्थः। सूतिसूयत्योस्तु सानुबन्धकत्वान्नेह ग्रहणम्।

तत्त्व-बोधिनी
जिदृक्षिविश्रीण्वमाव्यथाभ्यमपरिभूप्रसूभ्यश्च ७७२, ३।२।१५७

जिदृक्षि। जि जये, जि अभिभवे, दृङ् आदरे, क्षि क्षये,क्षि निवासगत्यो, श्रिञ् सेवायां विपूर्वः, व्यथ भयसंचलनयोर्नञ्पूर्वः। निपातनान्नञो धातुना समासे नलोपे ततः प्रत्ययः। अम गत्यादिषु अभिपूर्वः। प्रसवीति। षू प्रेरणे। अस्मादिनिः। षूङ् प्राणिगर्भविमोचने, षूङ् प्राणिप्रसवे, इमौ न गृह्रेते, सानुबन्धत्वात्। "जिदृक्षी"त्यत्रैव प्रजुं पठित्वा पूर्वसूत्रं त्यक्तुमुचितम्()। एवं हि पृथग्विभक्तिश्चकारश्च मास्त्विति सुवचम्।