सूत्रम्
इण्नश्जिसर्त्तिभ्यः क्वरप्॥ ३।२।१६३
काशिका-वृत्तिः
इण्नश्जिसर्तिभ्यः क्वरप् ३।२।१६३
इण् नश् जि सर्ति इत्येतेभ्यो धातुभ्यः तच्छीलादिषु कर्तृषु क्वरप् प्रत्ययो भवति। पकारस् तुगर्थः इत्वरः। इत्वरी। नश्वरः। नश्वरी। जित्वरः। जित्वरी। सृट्वरः। सृत्वरी। नेड्वशि कृति
७।२।८ इति इट्प्रतिषेधः।
न्यासः
इण्नश्जिसर्त्तिभ्य क्वरप्। , ३।२।१६३
"इत्वरः" इति। "ह्यस्वस्य पिति कृति तुक्"
६।१।६९। "इत्वरी" इति। "टिड्ढाणञ्"
४।१।१५ इत्यादिना ङीप्॥
बाल-मनोरमा
इण्नशजिसर्तिभ्यः क्वरप् ९४५, ३।२।१६३
इण्नशिजि। इण्, नशि, जि, सृ एभ्य क्वरप् स्यात्तच्छीलादिष्वित्यर्थः। कित्त्वान्न गुणः। पित्त्वं तु तुगर्थम्।
तत्त्व-बोधिनी
इण्नशजिसर्तिभ्यः क्वरप् ७७७, ३।२।१६३
इत्वरः। इत्वरीति। इण् गतौ "ह्यस्वस्य पिती"ति तुक्। कित्त्वाद्गुणाऽभावः। "टिड्ढे"त्यादिना स्त्रियां ङीप्।