पूर्वम्: ३।२।१६३
अनन्तरम्: ३।२।१६५
 
सूत्रम्
गत्वरश्च॥ ३।२।१६४
काशिका-वृत्तिः
गत्वरश् च ३।२।१६४

गत्वरः इति निपात्यते। गमेरनुनासिकलोपः क्वरप् प्रत्ययश्च। गत्वरः। गत्वरी।
न्यासः
गत्वरश्च। , ३।२।१६४

बाल-मनोरमा
गत्वरश्च ९४६, ३।२।१६४

गत्वरश्च। गमेरिति।गमेः क्वरप्, अनुनासिकलोपश्च निपात्यते इत्र्थः। झलादिप्रत्ययपरकत्वाऽभावादनुनासिकलोपस्याऽप्राप्तिः। पित्त्वात्तुक्। गत्वरीति। "टिड्ढे"ति ङीप्।