पूर्वम्: ३।२।१६५
अनन्तरम्: ३।२।१६७
 
सूत्रम्
यजजपदशां यङः॥ ३।२।१६६
काशिका-वृत्तिः
यजजपदशां यङः ३।२।१६६

यजादीनां यङन्तानाम् ऊकः प्रत्ययो भवति तच्छीलादिषु कर्तृषु। यायजूकः। जञ्जपूकः। दन्दशूकः।
न्यासः
यजजपदशां यङः। , ३।२।१६६

दंशेर्यदि "अनिदिताम्" ६।४।२४ इत्यादिनाऽनुनासिकलोपो लुप्तेऽपि यङि प्रत्ययलक्षणेन सिध्यति, तथापि लाघवार्थं कृतानुनासिकलोपो द्रष्टव्यो निर्दिष्टः। "यायजूकः" इति। यजेर्यङ, "दीर्घोऽकितः" ७।४।८३ इति दीर्घः, "अतो लोपः" ६।४।४८ इत्यकारलोपः। "जञ्जपूकः, दन्दशूकः" इति। "लुपसद" ३।१।२४ इत्यादिना यङ, "जपजभ"७।४।८६ इत्यादिनाऽभ्यासस्य नुक्॥
बाल-मनोरमा
यजजपदशां यङः ९४८, ३।२।१६६

यजजपदशां यङः। यज, जप,दश एषां त्रयाणां द्वन्द्वः। पञ्चम्यर्थे षष्ठी। तदाह--एभ्य इति। तच्छीलादिष्वित्येव। ननु दंशेर्नोपधत्वनात्कथं दशामिति निर्देश इत्यत आह-- भाविनेति। ऊके कृतेसति भविष्यतो नलोपस्याऽत्र निर्देश इति यावत्। यायजूक इति। "यस्य हलः" इति यलोपः। "अतो लोपः" "दीर्घोऽकितः" इत्यभ्यासस्य दीर्घः। जञ्जपूक इति। "जपजभदहदशभञ्जपशां चे"त्यभ्यासस्य नुक्। एवं दन्दशूकः।

तत्त्व-बोधिनी
यजजपदशां यङः ७७९, ३।२।१६६

यजजप। यायजूक इति। यजेर्यङि द्वित्वादि। "दीर्घोऽकितः" इत्यभ्यासदीर्घः। अतो लोपे "यस्य हलः" इति यलोपः। जञ्जपूक इत्यादि। "जपजभदहदशे" त्यादिना नुक्। वावदूकशब्दस्तु "उलूकादयश्चे"त्यत्र वक्ष्यते। माधवस्त्वाह-- कुर्वादिगणे वावदूक इति पाठादेव यङन्ताद्वदेरूकप्रत्यय इति।