पूर्वम्: ३।२।१७१
अनन्तरम्: ३।२।१७३
 
सूत्रम्
स्वपितृषोर्नजिङ्॥ ३।२।१७२
काशिका-वृत्तिः
स्वपितृषोर्नजिङ् ३।२।१७२

छन्दसि इति निवृत्तम्। स्वपेः तृषेश्च तच्छीलादिषु कर्तृषु निजिङ् प्रत्ययो भवति। स्वप्नक्। तृष्णक्। धृषेश्चेति वक्तव्यम्। धृष्णक्।
न्यासः
स्वपितृषोर्नजिङ्। , ३।२।१७२

"स्वप्नक, तृष्णक्" इति। "ञिष्वप शये" (धा।पा।१०६८), "ञितृषा पिपासायाम्" (धा।पा।१२२८), "चोः कुः"८।२।३० इति कुत्वम्-- गकारः। तस्य "वाऽवसाने" ८।४।५७ इति चत्र्वम्-- ककारः। नजिङो ङकारस्तृषेश्च गुणप्रतिषेधार्थः, इकार उच्चारणार्थः॥
बाल-मनोरमा
स्वपितृषोर्नजिङ् ९५४, ३।२।१७२

स्वपितृषोर्नजिङ्। पञ्चम्यर्थे षष्ठी। स्वपेर्नजिङ् स्यात्तच्छलादिष्वित्यर्थः। जकारादिकार उच्चारणार्थः। ङकार इत्। स्वप्नगिति। स्वपनशील इत्यर्थ-। स्वप्नजौ स्वप्नजः। एवं तृष्णक्। तर्षणशीलः इत्यर्थः। धृषेश्चेति। "नजि"ङिति शेषः। काशिकादाविति। भाष्ये तु न दृश्यते इति भावः।